________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। अतीसारचिकित्सितम् भोज्यं मूलकयुषेण वातघ्नश्चोपसेवनैः। वातातिसारविहितैयूं मांसरसैः खड्ः॥ पूर्वोक्तमम्लसर्पिर्वा षट्पलं वा यथाबलम् । पुराणं वा घृतं दद्याद यवागूमण्डमिश्रितम् ॥ ५५ ॥ वातश्लेष्मविबन्धे वा कफे वातिस्रवत्यपि। शूले प्रवाहिकायाश्च पिच्छावस्तिं प्रयोजयेत् ॥ पिप्पलीविल्वकुष्ठानां शताहावचयोरपि । कल्कैः सलवर्णयुक्तं पूर्वोक्तं सन्निधापयेत् ॥ ५६ ॥ प्रत्यागते सुखे स्नातं कृताहारं दिनात्यये।
विल्वतैलेन मतिमान् सुखोष्णेनानुवासयेत् ॥ गुड़तैलाभ्यं लिह्यात्। भोज्यमित्यादि। मूलकस्य शुष्कस्य यूपेण सशूलप्रवाहिककफातिसारिणान्नं भोज्यम्। वातघ्नश्चोपसेवनैराहारद्रव्योपसेवनदध्यादिभिः। वातातिसारविहितैर्यवानां मुद्गमाषाणामित्यादुप्रक्यूपैलौंपाकरसमित्यादुप्रक्तमेसरसैः। कल्कः स्याद् बालविल्वानामित्यादुप्रक्तैः खड़ा भोज्यम्। पूर्वोक्तमित्यादि। पूर्वोक्तं चाङ्गेरीघृतादिकमम्लसर्पिः षट्पलं सर्पिश्च पुराणं घृतं वा यधाबलं यवागूमण्डान्यतरमिश्रितं सशुलप्रवाहिकाय कफातिसारिणे दद्यात् ॥५५॥ ___ गङ्गाधरः-वातश्लेष्मेत्यादि। पिच्छावस्तिं पूर्वमुक्तम्। तत्प्रयोगमिह विधेयमाह-पिप्पलीत्यादि। पिप्पल्यादीनां कल्कैः श्लक्ष्णपिष्टः सलवणेयुक्तं पूर्वोक्तं पिच्छावस्तिं सन्निधापयेत् प्रयोजयेत् ॥५६॥
गङ्गाधरः-तस्मिन् दत्तपिच्छावस्तौ प्रत्यागते गुदानिर्गते मुखे जाते स्नातं, दिनात्यये कृताहारं, सुखोष्णेन विल्वतैलेन मतिमाननुवासयेत् । च यष्टितण्डुलात् ग्राहयन्ति । वाते प्रतिहत इति बद्धे वाते। उपसेवनैरिति व्यञ्जनः । पूर्वोक्तमम्लसपिरिति चाङ्गेरीकोलदध्यम्लेत्यादिनोक्तम् ॥ ५५ ॥
चक्रपाणि:-पिच्छावस्तिं प्रयोजयेदिति यदुक्तं ततापि पिच्छावस्तेविशेषणमाह पिप्पल्यादि. कल्कैर्युक्त सनिधापयेदिति ॥ ५६ ॥
For Private and Personal Use Only