________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः] चिकित्सितस्थानम् ।
३०६६ धातकी नागरं विल्वं लोध्र पद्मस्य केशरम् । जम्बुत्वङ नागरं धान्यं पाठा मोचरसं बला। समगा धातकी विल्व-मध्यं जम्ब्बाम्रयोस्त्वचा। कपित्थानि विङ्गानि नागरं मरिचानि च ॥ चाङ्गेरीतककोलाम्लांश्चतुरस्तान् कफोत्तरे। श्लोकार्द्धविहितान् दद्यात् सस्नेहलवणान् खड़ान् ॥ ५४॥ कपित्थमध्यं लीढ़व सव्योषक्षौद्रशर्करम् । कट्फलं मधुयुक्तं वा मुच्यते जठरामयात् ॥ कणां मधुयुतां लीढ़ा तक पीत्वा सचित्रकम् । जग्धा वा बालविल्वानि मुच्यते जठरामयात् ॥ बालविल्वं गुड़ तैलं पिप्पली विश्वभेषजम् । लिह्याद वाते प्रतिहते सशूलः सप्रवाहिकः॥ गङ्गाधरः-धातकीत्यादि। श्लोकार्द्ध विहितांश्चतुरो योगान् सुचूर्णिताश्वाङ्गेरीतक्रकोलरम्लान् कृखा तलस्नेहलवणाभ्यामनुरूपाभ्यां खड़ान् दद्यात् ॥५४॥
गङ्गाधरः-कपित्थेत्यादि। व्योषचूर्णक्षौद्रशर्कराभियथाह मिश्रितं कपिस्थस्य मध्यं शस्यं लीढा। मधुयुक्तं कटफलचूर्ण वा लीदा कफजजठरामयान्मुच्यते। कणामित्यादि। मधुयुतां कणां पिप्पली चूर्णितां लीढ़ा। अथवा सचित्रकं चित्रकमूलचूर्णसहितं चतुगुणं तकं पीखा अथवा बालविल्वानां शस्यानि जग्ध्वा जठरामयान्मुच्यते। बालविल्वमित्यादि। सशूलमवाहिकः कफातिसारी प्रतिहते प्रतिलोमे वाते वालविल्वपिप्पलीविश्वभेषजं चूर्णीकृत्य द्विगुणया धातक्या युक्तम् । जतूकणे ह्ययं योगः। पाठा जातीफलं व्योषं धातकीद्विगुणमित्युक्तम् । ॥ ५३ ॥ ५४॥
चक्रपाणि:-कणां मधुयुतामित्यस कणा पिप्पली। अन्ये कणानिति पठन्ति कणानित्यनेन
For Private and Personal Use Only