SearchBrowseAboutContactDonate
Page Preview
Page 869
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०१८ चरक-संहिता। अतीसारचिकित्सितम् लखितस्यानुपूठाश्च कृतायां न निवर्त्तते । कफजो यो ह्यतोसारः कफनैस्तमुपाचरेत् ॥५१॥ विल्वकर्कटिकामुस्तमभया विश्वभेषजम् । वचाविड़ङ्गभूतीक-धान्यकं सुरदारु च ॥ कुष्ठं सातिविषा पाठा चव्यं कटकरोहिणी। पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली॥ योगाः श्लोकाईविहिताश्चतुरस्तान् प्रयोजयेत् । शृतान् श्लेष्मातिसारेषु कायाग्निबलवर्द्धनान् ॥ ५२ ॥ अजाजीमसितां पाठां नागरं मरिचानि च । धातकीद्विगुणं दद्यान्मातुलुङ्गरसाप्लुतम् ॥ रसाञ्जनं सातिविषं कुटजस्य फलानि च। धातकीद्विगुणं दद्यात् पातु सक्षौद्रनागरम् ॥ ५३॥ गङ्गाधरः-लचितस्येत्यादि। श्लेष्मातिसारिणः प्रथमं लवितस्य पाचनामातिसारनदीपनानामानुपूयों कृतायां कफजो योऽतिसारो न निवर्त्तते, तं कफजातिसारं कफघ्नैर्वक्ष्यमाणैरुपाचरेत् ॥५१॥ गङ्गाधरः-कफनान् योगानाह-बिल्वेत्यादि। विल्वं वालविल्वं, कर्कटिका कर्कटशृङ्गी। श्लोकार्द्ध विहिता य इमे योगास्तांश्चतुरो योगान् शृतान् काथविधिना प्रयोजयेत् ॥५२॥ गङ्गाधरः-अजाजीमित्यादि । असितामजाजी कृष्णजीरकम् । एतदादिपरिचान्तानि प्रत्येकं समानि । तत्सर्च समम् । धातकी द्विगुणं द्विभागां धातकी दत्त्वा तत् सच मातुलुङ्गरसाप्लुतं दद्यात् । प्रकरणात् कफातिसारिणे। रसाञ्जनमित्यादि। कुटजस्य फलमिन्द्रयवः। रसाञ्जनादीनां प्रत्येकं समभागः । तदेकभागापेक्षया धातकी द्विगुणा यत्र तत् सक्षौद्रनागरं पातुं दद्यादिति । पानयोग्यं मधु चतुर्गुणं चूर्णापेक्षया देयम् ॥ ५३॥ चक्रपाणिः-कफन स्तमुपाचरेदित्युक्तम्, तेन विल्वककटिकेत्यादिना योगमाह ॥ ५५ ॥ ५ ॥ चक्रपाणि:- अजाजीमित्यादौ असितामिति पिप्पलीम् । धातकीद्विगुणमिति एकद्व्यापेक्षया For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy