________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः
चिकित्सितस्थानम्।
३०६७ न्यग्रोधोडुम्बराश्वत्थ-शुङ्गानापोथ्य वासयेत्। अहोरात्रं जले तप्ते घृतं तेनाम्भसा पचेत् ॥ तदर्द्धशर्करायुक्तं लेहयेत् क्षौद्रपादिकम् । अधो वा यदि वाप्यूद्ध यस्य रक्तं प्रवर्तते ॥४८॥ यस्त्वेवं दुर्बलो मोहात् पित्तलान्येव सेवते। दारुणं स बलीपाकं प्राप्य शोघ्र विपद्यते ॥ ४६॥ श्लेष्मातिसारे प्रथमं हितं लानपाचनम् । योज्यश्चामातिसारनो यथोक्तो दीपनो गणः ॥५०॥
लेहान्तरमाह-न्यग्रोधत्यादि। न्यग्रोधादीनां शुङ्गानापोथ्य कुट्टयिला चतुर्गुणे जले तप्तेऽहोरात्रं वासयेत्। तेन कषायेणाम्भसा चतुर्गुणेन घृतं पचेत् । पक्वं तद घृतं तद्घृतार्द्धशकरायुक्तं घृतपादिकक्षौद्रयुक्तं तमतिसारिणं लेहयेत यस्यातिसारिणो विविसर्गादधो वा यदि वाप्यूद्ध रक्तं प्रवत्तेते इति ॥४८॥
गङ्गाधरः-रक्तातिसारासाध्यतामाह-यस्त्वेवमित्यादि । यो रक्तातिसारी एवमनेन प्रकारेण दुर्बलः सन् मोहादज्ञानाद वा पुनः पित्तलानि सेवते, स दारुणं बलीपाकं गुदबलीपाकं प्राप्य शीघ्र विपद्यते म्रियते ॥४९॥ __ गङ्गाधरः-इति पित्तातिसारचिकित्सितमुक्त्वा श्लेष्मातिसारचिकित्सितमाह-श्लेष्मातिसार इत्यादि। लङ्घनपाचनं हितं, प्रथमं लङ्घनं कारयिला पाचनमौषधं दद्यात्। आमातिसारनो यथोक्तो दीपनो गणः पिप्पली नागरं धान्यमित्यादिनामातिसारनो यथा पूर्वमुक्त एवं पञ्चाशन्महाकषायेषु दीपनो गण उक्तः स प्रयोज्यः॥५०॥
चक्रपाणिः-शतावरीघृतमिति शतावरीमूलतुलाश्वतन इत्यादिना योनिव्यापघृतम् शतावरीघृतम्। विकारमिति रक्तं विटसहितमित्यादिनोक्तम् ॥ १८ ॥
चक्रपाणिः-बलीपाकमिति गुदवलीपाकम् ॥ ४९॥ चक्रपाणिः-दीपनो गण इति शालीपोत्यादिनोक्तः ॥ ५० ॥
For Private and Personal Use Only