________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६६
चरक-संहिता। (अतीसारचिकित्सितम् पिच्छावस्तिं तदा तस्य यथोक्तमुपकल्पयेत्। प्रपौण्डरीकसिद्धेन सर्पिषा चानुवासयेत् ॥ ४६॥ प्रायशो दुर्बलगुदाश्चिरकालातिसारिणः। तस्मादभीक्ष्णशस्तेषां गुदे स्नेहं प्रयोजयेत् ॥ अतिवृत्तो हि पवनः स्वे स्थाने लभतेऽधिकम् । बलं तस्य सपित्तस्य जयार्थे वस्तिरुत्तमः ॥ ४७॥ रक्तं विट्सहितं पूर्व पश्चाद वा योऽतिसार्यते। शतावरीघृतं तस्य लेहार्थमुपकल्पयेत् ॥ शर्कराद्धोंशिकं लीद नवनीतं नवोद्धृतम् ।
क्षौद्रपादं जयेच्छीघ्र तं विकारं हिताशिनः ॥ यथोक्तं पिच्छावस्तिं परिवेष्टनात्यादिना पूर्वमुक्तमुपकल्पयेत् । प्रपौण्डरीकबक्कल्कसिद्धेन सर्पिषा वा तं नरमनुवासयेत् ॥४६॥
गङ्गाधरः-प्रायश इत्यादि। चिरकालातिसारिणो नराः प्रायशो दुब्बल. गुदा भवन्ति, तस्मात् तेषां चिरकालातिसारिणां गुदवलार्थमभीक्ष्णशो गुदे स्नेह प्रयोजयेत् । कस्मात् ? अतिवृत्त इत्यादि। हि यस्मादतिसारस्य चिरेणातिवृत्ती पवनः स्वे स्थानेऽधिकं बलं लभते । तस्य सपित्तस्य जयार्थमनुवासनवस्तिरुत्तमस्तस्मात् प्रपौण्डरीक सिद्धेन सर्पिषाऽनुवासयेदिति ॥४७॥
गङ्गाधरः-रक्तमित्यादि। यो नरः पूर्व वा पश्चाद् वा विटसहितं रक्तमतिसायंते, तस्य शतावरीघृतं लेहार्थमुपकल्पयेत्। अथवाशर्करेत्यादि। नवोद्धतं नवनीतं शर्कराद्धांशिकमद्धांशशर्करं क्षौद्रपादं पादांशमधुयुतं लीढं हिताशिनस्तं विट्सहितरक्तातिसारं शीघ्र जयेत् । - चक्रपाणिः-पिच्छावस्तिं तदा तस्येति भत्रैवोपरि बस्तिग्रन्थोक्तम् । गुदै स्नेहं प्रयोजयेदिति स्नेहभावितपिचुप्रणयनेन गुहे. स्नेहप्रयोगमिच्छन्ति। अन्ये तु प्रकृतत्वादनुवासनेनैवान प्रयोगमाहुः ॥ ४६॥
चक्रपाणिः-स्वे स्थाने इति पक्काशये। बस्तिरिति सामान्यवचनात् अनुवासनं निरूहश्च
ज्ञयः॥४७॥
For Private and Personal Use Only