________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः
३०६५
चिकित्सितस्थानम्। प्रक्षालनानां कल्कैर्वा ससर्पिष्कः प्रलेपयेत् । एषां वा सुकृतैश्चूणैस्तं गुदं प्रतिसारयेत् ॥ तथा रक्तं न स्रवति गुदं तः प्रतिसारितम् । पक्वता प्रशमं याति वेदना चोपशाम्यति ॥ यथोक्तः सेचनः शीतैः शोणितेऽतिस्रवत्यपि। गुदवङ्क्षणकटूारु सेचयेद् घृतभावितम् ॥ चन्दनाय न तैलेन शतधौतेन सर्पिषा। कार्पाससंगृहीतेन भावयेद् गुदवङ्क्षणम् ॥ ४५ ॥ अल्पाल्पं बहुशो रक्त सशूलमुपवेश्यते। यदा वायुर्विबद्धश्च कृच्छ्च रति वा न वा ॥
गव्यैर्वा घृतैस्तश्च पयोभिर्वा शर्कराक्षौद्रसंयुतः सेचयेत् । प्रक्षालनानामित्यादि। उक्तानां पटोलमधुकादीनामिक्षपर्यन्तानां प्रक्षालनद्रव्याणां कल्कैः दृषदि पिष्टैः ससर्पिष्कगुदं प्रलेपयेद वा। कल्कवचनाच्छागगव्यघृतपयःशर्करामधमां कल्कखासम्भवान्नेह प्रलेपविधिः। एषां प्रक्षालनद्रव्याणां सुकृतः चूर्णस्तं पक्वं गुदं प्रतिसारयेत् । तैः प्रतिसारितं गुदं तथारक्तमतिसाररक्तं न स्रवति। यथोक्तरित्यादि। यथोक्तैः पटोलमधुकाम्बुप्रभृतिभिः शीतैः सेचनैरपि शोणितेऽतिस्रवति सति घृतभावितं पुनःपुनघृतम्रक्षितं गुदवङ्क्षणकटारु तैः सेचनः पटोलमधुकाम्बुप्रभृतिभिः सेचयेत्। गुदादिभावनार्थ स्नेहान्तरमाह-चन्दनादानेत्यादि । ज्वराधिकारोक्तचन्दनादेवन तैलेन कार्याससंगृहीतेन पिचुना गृहीतेन तैलेन गुदादिकं भावयेत्, शतधौतेन सर्पिषा वा काससंगृहीतेन गुदादिकं भावयेत् ॥४५॥
गङ्गाधरः-अल्पाल्पमित्यादि। अल्पाल्पमथ च वहुशोऽनेकवारं सशुलं रक्तं यदोपवेश्यते वायुश्च विवद्धः सन् कृच्छ चरति, न वा चरति, तदा तस्य
रित्यन्तेन सेचयेदित्यनुवर्तते। प्रक्षालनानामिति प्रक्षालनार्थ युक्तानां पटोलमधुकादीनाम्, प्रतिसारयेदवचूर्णयेत् ॥ ४३-४५॥
For Private and Personal Use Only