________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ अध्यायः ]
चिकित्सितस्थानम् ।
वचान्तैरथवा कल्कैस्तैलं पक्तत्वानुवासयेत् ।
बहुशः कफवातार्त्तस्तथा स लभते सुखम् ॥ ५७ ॥ स्वस्थाने मारुतोऽवश्यं वर्द्धते कफसंक्षयात् । विवृद्धः सहसा हन्यात् तस्मात् तं त्वरया जयेत् ॥ वातस्यानु जयेत् पित्तं पित्तस्यानु जयेत् कफम् । त्रयाणां वा जयेत् पूर्व या भवेदु बलवत्तरः ॥ ५८ ॥
३१०१
अथवा वचान्तैः विल्वकर्कटिकामुस्तमभयाविश्वभेषजम् वचेत्यन्तैः कल्कः तैलं चतुर्गुणजले पक्तवानुवासयेदिति । अस्याशीः बहुश इत्यादि ।। ५७ ।।
गङ्गाधरः- कफातिसारचिकित्सितमुक्तवा सन्निपातचिकित्सामाहस्वस्थान इत्यादि । त्रिदोषजातिसारे पूव्व कफसंक्षयान्मारुतः स्वस्थाने पकाशयेऽवश्यं वर्द्धते, विवृद्धश्च मारुतः सहसा तमातुरं हन्यात् तस्मात् तं विवृद्धं मारुतं खरया जयेत् । वातस्य जयादनु पित्तं जयेत् । पित्तस्य जयादनु कर्फ जयेत् । यदि कफक्षयो न भवति मारुतश्च न वर्द्धते तदा यत् कुर्य्यात् तदाहत्रयाणामित्यादि । त्रयाणां दोषाणां मध्येऽतिसाररोगे यो बलवत्तरो दोषो भवेत् तं दोषं पूवं जयेदिति । भयशोकजयोर्वात चिकित्सितं कुर्य्यात् वातलक्षणवाद वातप्रकोपाच्च । इति तन्न प्रोक्तमिति ॥ ५८ ॥
1
For Private and Personal Use Only
चक्रपाणिः - विल्वतैलेनेति सिद्धौ दशमूलं बलारास्नेत्यादिना वक्ष्यमाणं विश्वतैलम् । वयान्तैरिति पिप्पलीविल्वकुष्ठानां शताह्वावचयोरित्यत्रोक्तर्वचान्तैः ॥ ५७ ॥
चक्रपाणिः सम्प्रति सर्व्वातिसारेषु पक्वाशयव्यापकत्वेन वायुवृद्धिर्भवति सा चाशुकारितया त्वरया, जेतव्येति दर्शयन्नाह स्वे स्थाने इत्यादिना । कफसंक्षयादित्यनेन कफसंक्षये रुक्षवारीरतया वायुः कुप्यति श्लेष्मशोणिते वृद्धे शरीरवायुः विवृतप्रसवो भवति इति । पूर्व ज्वराध्याये सचिपातचिकित्सायां कफस्थानानुपूर्व्या वा इत्यनेन कफपित्तवातादीनां क्रमेण चिकित्सा भतीसारेऽपि त्रिदोषजे कदाचित् स्यादित्याशङ्कय भव विशिष्टं क्रममाह-वातस्यान्वित्यादि । भयन क्रमो निरामसन्निपातातिसारे एव ज्ञेयः । सामे तु प्रथममामस्यैव चिकित्सितं कर्त्तव्यम् । समत्रिदोषातिसारचिकित्साक्रममभिधाय विषमतिदोषातिसारचिकित्साक्रममाह श्रयाणामिति ॥ ५८ ॥
३८९