________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः
चिकित्सितस्थानम् । ३०६१ पित्तातिसारी यस्त्वेतां क्रियां मुक्त्वा निषेवते। पित्तलान्यन्नपानानि तस्य पित्तं महाबलम् ॥ रक्तातिसारं कुरुते रक्तमाशु प्रदूषयत् । तृष्णां दाहश्च शूलञ्च गुदपाकञ्च दारुणम् ॥ ३८॥ तत्र छागपयः शस्तं शोतं समधशर्करम् । पानार्थ व्यञ्जनार्थश्च गुदप्रक्षालने तथा ॥ भोजनं रक्तशालोनां पयसा तेन भोजयेत् । रसैः पारावतादीनां घृतभृष्टैः सशर्करः ॥ गङ्गाधरः-पित्तातिसारस्य निदानविशेषेणावस्थाविशेषो भवति, तमाहपित्तातिसारीत्यादि। पित्तातिसारी यः पुनरेतां पित्तातिसारप्रतिक्रियां मुक्त्वा पित्तलान्यन्नपानानि निषेवते तस्य पित्तातिसारिणः पित्तं महाबलं सत् आशु रक्तं प्रदूषयत् सत् रक्तातिसारं कुरुते। अजाते पित्तातिसारे पित्तला. हारसेविनो यो रक्तातिसारो दृश्यते स तु न रक्तातिसारः, पित्तातिसारे रक्तपित्तोपगतमतिसार्यत इत्युक्तम्। ततः स एव पित्तातिसार इति । रक्तातिसाररूपविशेषमाह-तृष्णामित्यादि ॥३८॥ __गङ्गाधरः-तस्य चिकित्सामाह-तत्रेत्यादि। तत्र रक्तातिसारे। पानार्थ पिपासायां भोजने च व्यञ्जनार्थ, व्यञ्जनं हि भोज्यानसहिताभ्यवाहार्य्यद्रव्यं न तु फलपत्रादिशाकमांसकृतमात्रं, गुदपाके गुदप्रक्षालने च, शीतमिति किश्चित्पक्वं शीतीकृतं मधुशर्करे प्रक्षिप्य छागपयः शस्तम्। अत एवाह-भोजनमित्यादि। रक्तशालीनां भोजनमन्नं तेन समधुशर्क रेण
चक्रपाणिः-पित्तातिसारीत्यादिना पित्तातिसारस्यैव हेतुविशेषकृतावस्थाभेदरूपं रक्तातिसारं दर्शयति । अयञ्च रक्तातिसारो यद्यपि पित्तातिसारोत्तरकालभावितयोक्तः, तथापि पित्तातिप्रकोपेग रक्तदृष्ट्या च प्रथममपि भवत्येव दुष्टत्वादिति ज्ञेयम्। तेनावोत्पत्तिक्रियाभिधानम् अतन्त्रम् । यथा पाण्डुरोगी तु योऽत्यर्थमित्यादिना कामला उक्ता, उक्त क्रमं विनापि कामला भवति ; एवमपि चास्य रक्तातीसारस्य पित्तजन्यत्वात् पैत्तिके एवावरोधः तेन पटसंख्या न व्याहृन्यते। अतीसारस्य तु आमरक्तशकृत्पित्तवातकफान् अतीसारकारकानभिधाय एकद्वित्रिसंसर्गात् विंशभेदा भवन्ति । ते केवलैः सह पत्रिंशदपि अत्रैव षटकेऽन्तर्भावनीयं तत सूक्ष्मभेदगणनया स भेदः कृत इत्याविरोधः ॥ ३८॥
For Private and Personal Use Only