________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६०
चरक-संहिता। [ अतीसारचिकित्सितम् परिवेष्ट्य कुशैराट्रैरा वृन्तानि शाल्मलेः। कृष्णमृत्तिकयालिप्य स्वेदयेद् गोमयाग्निना ॥ सुशुष्कां मृत्तिकां ज्ञात्वा तानि वृन्तानि शाल्मलेः । शृते पयसि मृद्गोयादापोथ्योलूखले ततः॥ पिण्डं मुष्टिसमं प्रस्थे तत् पूतं तैलसर्पिषोः । स्नेहितं मात्रया युक्तं कल्केन मधुकस्य च ॥ वस्तिमभ्यक्तगात्राय दद्यात् प्रत्यागते ततः।
स्नात्वा भुञ्जीत पयसा जागलानां रसेन वा ॥ पित्तातिसारज्वरशोषगुल्म-जीर्णातिसारग्रहणीप्रदोषान् । जयत्ययं शीघ्रमतिप्रवृद्धान् विरेचनास्थापनयोश्च वस्तिः॥ ३७॥
इति पिच्छावस्तिः। पिच्छावस्तिमाह–परिवेष्टोत्यादि। शाल्मलेरान्तानि कुशेराद्रः परि वेष्ट्य कृष्णमृत्तिकया चालिप्य गोमयामिना स्वेदयेत् । तामालेपनमृत्तिका सुशुष्का शाखा शाल्मलेस्तानि वृन्तानि उलूखले तत आपोथ्य तत्पिण्डं मुष्टिसमं पलपरिमितं शृते पयसि प्रस्थे गोलनोचिते मृदनीयात् । तद् वस्त्रेण पूतं तैलसर्पिषोमिलितयोर्मात्रया स्नेहयोग्यया मिश्रयिखा स्निग्धीकृतं मधुकस्य कल्केन श्लक्ष्णपिष्टेन मात्रया युक्तमभ्यक्तगात्राय वस्तिं दद्यात् । ततः प्रत्यागते तस्मिन् वस्तौ स्नाखा पयसा भुञ्जीत जागलानां मांसरसेन वा भुञ्जीत । अस्य वस्तेराशिषमाह-पित्तातिसारेत्यादि । अयं विरेचनास्थापनयोः पिच्छावस्तिश्च। पिच्छावस्तिः॥३७॥
चक्रपाणिः-परिवेष्टेवत्यादिना पिच्छावस्तिमाह। शृते पयसीत्यत्र पानीयमानेनैव पयः शृतं ज्ञेयम् । प्रस्थ इति शृते पयसीत्यस्य विशेषणम्। वृन्तानि शाल्मले उलूखले आपोथ्य आपोथतात् पिण्डं शृते प्रस्थे पयसि मृदनीयादिति योजना। मातयेति वचनात् तेलसर्पिषोस्तव तावती माता यावत्या स्नेहमानं भवति । तथा यष्टीमधुकल्कस्यापि तावती माता यावत्या घनो वस्तिर्भवति ॥३७॥
For Private and Personal Use Only