________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः
१९श अध्यायः] चिकित्सितस्थानम्। ३०८७ शारिवाचन्दनकिराततिक्तकोदीच्यवारिभिः उपचारः । लवितस्य तस्य चाहारकाले बलातिबलासूप्यपर्णाशालपर्णीप्रश्नीपर्णीवृहतीकण्टकारिकाशतावरीश्वदंष्ट्रानिय्यूहप्रयुक्तेन यथासात्म्यं यवागूमण्डादिना तर्पणादिना वा क्रमेणोपचारः। मुद्गहरेणमसूरमुकुष्टाढकीयूषैर्वा लाव-कपिञ्जल-शश-हरिणैण-कालपुच्छरसरोषदम्लैरनम्लेर्वा क्रमशोऽग्निं सन्धुतयेत्। अनुबन्धे त्वस्य दीपनीयपाचनोयोपशमनोयसंग्रहणीयान् योगान् प्रयोजयेदिति ॥३१॥
भवन्ति चात्र। सक्षौद्रातिविषं पिष्टा वत्सकस्य फलत्वचम् ।
तण्डुलोदकसंयुक्तं पेयं पित्तातिसारनुत् ॥ ३२ ॥ वारिभिः पानादिषूपचारः कार्यः। लवितस्य तस्य पित्तातिसारिणो बुभुक्षायामाहारकाले बलातिवलादिनिय्यू हैः प्रयुक्तेन सिद्धेन यथासात्म्यं यवाग्मण्डादिना तर्पणादिना वा क्रमेणोपचारः कार्यः। ततोऽधिकबुभुक्षायामन्नकाले मुद्गादियूपैर्वा लावादिमांसरसेवा ईषदम्लैरनम्लै; भोजयिखा क्रमशोऽस्याग्निं सन्धुक्षयेत् । हरेणुवलकलायः। 'मुकुष्टको वनमुद्गः। कपिञ्जलः श्वेततित्तिरिः। कालपुच्छो हरिणविशेषः। अनुबन्धे निवृत्तपित्तातिसारानुबन्धे खल्वस्यातिसारिणो दीपनीयान् दश पिप्पल्यादीन् पाचनीयान् जीवकादीन् उपशमनीयान् बालविल्वादीन् संग्रहणीयान् पुरीषसंग्रहणीयान् वक्ष्यमाणान् योगान् प्रयोजयेत् । इति ॥३१॥
गङ्गाधरः-तान् दीपनीयादीनाह-भवन्ति चात्रेति। सक्षौद्रेत्यादि । वत्सकस्य फलश्च स च तवयं सातिविषं तण्डुलोदकेन पिष्टवा सक्षौद्रं तेनैव तण्डुलोदकेन पेयमिति ॥ ३२ ॥ आमातिसारे सामान्यविधानमुक्तं तदिह नानुमन्यते। तत्र च प्रवर्तने क्रियमाणे भतियोगभयं स्यादिति भावः। यत् तु विरेचनमिह वक्तव्यं तस सामग्रीविशेषसम्पन्नाभाव एव । लखितस्य चेत्यादौ सूर्य पर्णी मुद्रमाषपथ्यौं । निय्यूं हशब्देन च षडङ्गविधानसिद्ध जलमुच्यते। यवाग्वादिसाधने तस्यैवाधिकारात् । अनुबन्धे स्वित्यादौ पित्तातिसारागुनधे। इमानिति वक्ष्यमाणान् ॥३१॥ चक्रपाणिः-फलस्वचं लञ्च त्वक् चेति फलस्वचम् ॥ ३२ ॥
For Private and Personal Use Only