________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८६
चरक-संहिता। अतीसारचिकित्सितम् स्तब्धे भ्रष्टे गुदे पूर्व स्नेहस्वेदी प्रयोजयेत् । सुखिन्नं तं मृदुभूतं पिचुना संप्रवेशयेत् ॥ २६ ॥ विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः । सरक्तपिच्छस्तृष्णातः क्षीरसौहित्यमर्हति ॥ यमकस्योपरि क्षीरं धारोष्णं वा पिबेत् स ना। शृतमेरण्डमूलेन घालविल्वेन वा पुनः॥ एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति ।
शलं प्रवाहिका चैव विबन्धश्चोपशाम्यति ॥ ३०॥ पित्तातिसारं पुनर्निदानोपशयाकृतिभिरामान्वयमुपलभ्य यथाबलं लानपाचनाभ्यामुपाचरेत्। तृष्यतस्तुमुस्तपर्पटकोशोरअनुवासनम्, वचया सिद्धं घृतं चित्रकेण वा सिद्धं घृतमनुवासनं गुदभ्रंशे स्यादिति ॥२८॥
गङ्गाधरः-स्तब्ध इत्यादि। गुदं भ्रष्टं सद् यदि स्तब्धमप्रविष्टं भवति तदा तत्र गुदे पूर्व स्नेहस्वेदी प्रयोजयेत् । तं मुस्विन्नं गुदं मृभूतं पिचुना तूलकनिर्मितेन पत्राकारेणावेष्ट्य धृखा प्रवेशयेत् ॥ २९॥
गङ्गाधरः-विबद्धत्यादि। अतीसारी विबद्धवातवर्चा बहुशूलप्रवाहिकस्तु सरक्तपिच्छां विस्रष्टा तृष्णार्तश्च नरः क्षीरसौहित्यमाप्ति क्षीरपाणमहे ति । स ना विबद्धवातवच्चैःप्रभृतिः पुरुषः, यमकस्य मुद्गादिविदलं शाल्यादि. तण्डुल इत्युभयोमेलनन पाकाद् यमकं नामोदनो भवति, तस्य भोजनादुपरि धारोष्णं क्षीरं वा पिबेत् । शृतमित्यादि। एरण्डमूलेन वा बालविल्वेन वा सिद्धं शृतं क्षीरं पिबेत् । एषां क्षीराणां प्रयोगेण रक्तादिकं प्रशाम्यति ॥३०॥ ___ गङ्गाधरः-इति सामान्यतोऽतिसारचिकित्सितमुक्त्वा विशेषत आहपित्तेत्यादि। निदानादिभिः पित्तातिसारमामान्वयमुपलभ्य यथावलं लवनं विधाय पाचनेनोपाचरेत्। तृष्यतः पित्तातिसारिणस्तु मुस्तादिभिः शृतः
चक्रपाणिः-पिचुना संप्रवेशयेदिति पिचुनाच्छादितं पीडयित्वा प्रवेशयेत् । पिचुः स्थूलकर्पटिका ॥ २९॥
चक्रपाणिः-साहित्य तृप्तिः ॥ ३० ॥ चक्रपाणिः-आमान्वयम् इति आमयुक्तम् । लखनपाचनाभ्याम् उपानरेदित्यनेन यत् पुर्वम्
For Private and Personal Use Only