________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५८
चरक संहिता। [ अतीसारचिकित्सितम् किराततिक्तकं मुस्तं वत्सकः सरसाञ्जनः । विल्वं दारुहरिद्रा च होवेरं सदुरालभम् ।। चन्दसञ्चामृणालञ्च नागरं लोध्रमुत्पलम् । तिला मोचरसी लोध्र समगा कमलोत्पलम् ॥ नागरं धातकीपुष्पमुत्पलं दाडिमत्वचः । कट्फल नागरं पाठा-जम्बाम्रास्थि दुरालभा । योगाः षड़ते सनौद्रास्तण्डुलोदकसंयुताः। पेयाः पित्तातिसारघ्नाः श्लोकाः तु निदर्शिताः ॥ ३३ ॥ जीर्णो षधानां शस्यन्ते यथायोगोपकल्पितः।। रसैः सांगाहिकैर्युक्ताः पुराणा रक्तशालयः ॥ ३४ ॥ पित्तातिसारो दीप्ताग्नेः शीघ्र समुपशाम्यति । अजाक्षीरप्रयोगेण बलं वर्णश्च वर्द्धते ॥ बहुदोषस्य दीप्ताग्नेः सप्राणस्य न तिष्ठति । पैत्तिको यद्यतीसारः पयसा तं विरेचयेत् ॥ गङ्गाधरः-किरातेत्यादि रसाञ्जनान्त · एको योगः। विल्वादिदुरालभान्तो द्वितीयः। चन्दनादुरत्पलान्तस्तृतीयः। तिलादुत्पलान्तश्चतुर्थः । नागरादिदाडिमखगन्तः पञ्चमः। कटफलादिदुरालभान्तः षष्ठः। सवें पड़ेते योगाश्चूर्णिताः क्षौद्रयुक्तास्तण्डुलोदकेन पेयाः। पीतानामेषां जीर्णत्वे यथायोगोपकल्पितैः सांग्राहिमसरसयुक्ताः पुराणाः संवत्सरातीता रक्तशाल्यादयो भोजने शस्यन्ते ।। ३३ । ३४ ॥
गङ्गाधरः-पित्तेत्यादि। एवं कृते दीप्ताग्नर्नरस्य पित्तातिसारोऽमाक्षीर. प्रयोगेण शीघ्र समुपशाम्यति बलं वर्णश्च वर्द्धते। बहुदोषेत्यादि। बहुदोषस्य चर्घ कृत दीप्ताग्नेरपि सप्राणस्य यदि पैत्तिकोऽतिसारो न तिष्ठति गतिनित्तिमान न भवति तदा समाणं बलवन्तं तं पयसा विरेचषेत् न सबलम् ।
चक्रपाणिः–भमृणालमुशीरम् । समगा मशिष्टा, वराहकांन्या हस्यन्ये ॥ ३३ ॥ ३४ ॥
For Private and Personal Use Only