________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८४
चरक-संहिता। अतिसारचिकित्सितम् दध्नः सरं वा यमके भृष्टं सगुड़नागरम् । सुरां वा यमके भृष्टवा व्यञ्जनार्थे प्रयोजयेत् ॥ फलाम्लं यमके भृष्टं यूषं गृञ्जनकस्य वा । लोपाकरसमम्लं वा स्निग्धाम्लं कच्छपस्य वा ॥ वर्हि तित्तिरिदक्षाणां वर्तकानां तथा रसः । स्निग्धोष्णाः शालयश्चाग्रा वर्चःक्षयरुजापहाः ॥ अन्तराधिरसं पूत्वा रक्त मेषस्य चोभयम्। पचेद दाडिमसाराम्लं सधान्यस्नेहनागरम् ॥ भोजने रक्तशालीनां तेनायात् प्रपिवेच्च तम् ।
तथा वचक्षयकृताधिभिर्विप्रमुच्यते ॥ २४ ॥ अष्टादशगुणे तोये चतुर्दशगुणे वा धान्ययूषं शुकधान्यशमीधान्ययषं तं यूषं दभिदाडिमरसन साधितं पक्वं यमके घृततैले सम्भृष्टं प्रकल्पयेत् । वर्चक्षयेऽतिसारेण पुरीषक्षये शुष्कमुवं तं नरं तेन यूषेण शाल्यन्नं भोजयेत् । दध्न इत्यादि। सगुड़नागरं दध्नः सरं यमके भृष्टं वा यमके मुरां वा भृष्ट्वा व्यञ्जनार्थे प्रयोजयेत् । फलाम्लमित्यादि। फलाम्लं तिन्तिडिकादि. फलाम्लं यमके भृष्टं गृञ्जनकस्य पलाडुविशेषस्य गाँजोर इति ख्यातस्य यूषं लोपाकस्य क्षुद्रशृगालस्य मांसरसमामलकाधम्लेनाम्लीकृतं कच्छपस्य मांसरसं घृतादिना स्निग्धमामलकाद्यम्लेनाम्लीकृतम् व्यञ्जनार्थे प्रयोजयेत् । वहीत्यादि। एवं बर्हि प्रभृतीनां मांसरसः स्निग्धोषणाश्च ये शालयोऽग्राः श्रेष्ठास्ते वचःक्षयरुजापहाः। अन्तराषिरसमित्यादि। मेषस्यान्तराधे मध्यदेहस्य मांसरसं पक्त्वा पूत्वा मेषस्य रक्तञ्चेत्युभयं पचेत। आसन्नपाके दाडिमसारस्य वीजस्याम्लं रसं धान्यकचूर्णनागरचूर्णमनुरूपं प्रक्षिप्य दाडिमसाराभ्यां संस्कृतं दधिदाडिमसाधितम् । शालीनां यद्यपि बद्धवर्ध्वरस्वम् उक्तं तथारोह खड्यूषविशेषयुक्तानां शालीनां वर्चःक्षये हितस्वं दर्शयन्नाह-स्निग्धाम्लाः शालयश्चाप्रया वर्चःक्षयरुजापहा इति। तेनाद्यात् प्रपिबेच्च तमिति उक्तविधानकृतेन द्रवेण संदियात्। पृथक दषं पिबेत् वी भयकृतैः मुखोपदौर्बल्योदावादिभिः ॥ २४ ॥
For Private and Personal Use Only