________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०८२
चरक-संहिता। [अतिसारचिकित्सितम् यवागूभिर्विलेपीभिः खड़े यूष रसौदनैः। दोपनग्राहिसंयुक्तः क्रमश्च स्यादतः परम् । २०॥ शालपर्णी पृश्निपर्णी वृहती कण्टकारिका। बलाश्वदंष्ट्राविल्वानि पाठानागरधान्यकम् ॥ शटी पलाशं हवुषां वचाजीरकपिप्पलीः। यमानों पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ वृक्षाम्लं दाडिमञ्चाम्लं सहिङ्ग विड़सैन्धवम् । प्रयोजयेदनपाने विधिना सूपकल्पितम् ॥ वातश्लेष्महरो ह्यष गणो दोपनपाचनः। ग्राही बल्यो रोचनश्च तस्माच्छस्तोऽतिसारिणाम् ॥ २१ ॥ आमे परिणते यस्तु विबद्धमतिसायंते। सशूलपिच्छमल्पाल्पं बहुशः सप्रवाहिकम् ॥
तदाह-यवागूभिरित्यादि। अतस्तकादिना यथासात्म्यभोजनात् परम् । यवागूरिह पेया पड़ गुणतोयसाधिता। विलेपी नाम यवागूश्चतुर्गुणतोयसाधिता। खड़ो यूषो निरम्लः। रसौदनो लघुमांसरससाधितः । दीपनग्राहिसंयुक्तरेतैर्यवाग्वादिरसौदनान्तै जनक्रमः स्यादिति ॥२०॥ __गङ्गाधरः-दीपनग्राहिद्रव्याण्याह-शालपर्णीत्यादि। शालपर्यादीनामन्यतमद्रव्यं समस्तं वातिसारेष्वन्नपाने विधिना सूपकल्पितं प्रयोजयेत् । गणोक्तानां यथालाभं प्रयोगात् ॥२१॥ __गङ्गाधरः-आम इत्यादि। इत्येवमामातिसारपरिपाके जाते यस्तु विबद्धा.
चक्रपाणिः-यवागूर्विरलद्रवा विलेपी बहुसिक्था च। रसादिसंस्कृताः धनरसौदनाः। प्रलेखा व्यजनविशेषाः। दीपनग्राहिगणौ षड् विरेचनशताश्रितीयोक्तौ। अतः परमिति यवाग्वायु पचारानन्तरम् ॥२०॥
चक्रपाणिः-शालीपर्णीत्यादिना यवाग्वादिसंस्कारद्रव्याण्याह ॥ २१॥
चक्रपाणिः-सप्रवाहिकमित्यत्र प्रवाहिकालक्षणम् 'वायुर्विवृद्धो निचितं वलासं नुदत्यवस्तादहिताशनस्य। प्रवाहतोऽल्पं बहुशो मलाक्तं प्रवाहिका तां प्रवदन्ति तज्ज्ञा।' इत्यनेन
For Private and Personal Use Only