________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्याय:1
चिकित्सितस्थानम्। ३०८१ पिप्पली नागरं धान्यं भूतीकमभया वचा। ही भद्रमुस्तानि विल्वनागरधान्यकम् ॥ पृश्निपर्णी श्वदंष्ट्रा च समगा कण्टकारिका।। तित्रः प्रमथ्या विहिताः श्लोका.रतिसारिणाम् ॥ वचाप्रतिविषाभ्यां वा मुस्तपर्पटकेन वा। हीवेरशृङ्गवेराभ्यां पक्क वा दापयेजलम् ॥ १८॥ युक्तेऽनकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत् । तथा स शीघ्र प्राप्नोति रुचिमग्निबलं बलम् ॥ १६ ॥ तणावन्तिसोमेन यवाग्वा तर्पणेन वा। सुरया मधुना वादी यथासात्म्यमुपाचरेत् ॥
गङ्गाधरः-प्रमथ्यायोगानाह-पिप्पलीत्यादि। वचान्ता धान्यकान्ता कण्टकारिकान्ता चेति तिस्रः प्रमथ्याश्चूर्णकषायादिकल्पनया विहिताः । वचेत्यादि। अतिसारिणे पिपासवे वचादिभ्यां द्वाभ्यां द्वाभ्यामर्द्धशृतं जलं दापयेत् । इत्येताच प्रमथ्यास्तिस्रः॥१८॥
गङ्गाधरः युक्ते इत्यादि। इत्येवं प्रमथ्यायोगे क्षुत्क्षामं क्षुधया क्षीणमतिसारिणमन्त्रकाले युक्ते लघून्यन्नानि भोजयेत्। तथा सति सोऽतिसारी शीघ्र रुच्यादिकं प्राप्नोति ॥१९॥ ..
गङ्गाधरः-येन लघून्यन्नानि भोजयेत् तदाह-तक्रणेत्यादि । तक्रादिना यथासात्म्यं भोजनमुपाचरेत्। अवन्तिसोमं काञ्जिकम्। ततः परं यत्
चक्रपाणि-तिम्रः प्रमथ्या इति यथाक्रमं कफपित्तवातेषु विभज्य देया इति वदन्ति । तथा वचाप्रतिविषादिभिः विहितानि लीच्यपि जलानि कफपित्तवातेषु यथाक्रमं बदन्ति । षडङ्गविधिनात जलसाधनं ज्ञयम् ॥ १० ॥
पाणिा-युक्तऽशकाले इति सम्यग्नुभुक्षाकाले । अवन्तिसोमं कालिकम् । तक्रादीनां पाणां तर्पणादीनाम् पालोड़नार्थमिहाभिधानम् ॥ १९॥
For Private and Personal Use Only