SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०७४ चरक-संहिता। (अतीसारचिकित्सितम् ऽसात्म्यभोजनाद् अभोजनात् कालातीतभोजनाच किश्चित् अभ्यवहरणात् प्रदुष्टमद्यपानीयपानात् अतिमद्यपानीयपानात् असंशोधनात् प्रतिकर्मणां विषमगमनादनुपचाराज्ज्वलनादित्यपवनसलिलातिसेवनात् अस्वप्ना वेगविधारणाहतुविपर्ययात् अयथाबलमारम्भाद भयशोकचिन्तोद्व गातियोगात् क्रिमि-शोथ-ज्वराोविकारातिकर्षणैः व्यापन्नाग्नेस्त्रयों दोषाः प्रकुपिता भूय एवाग्निमुपहत्य पक्वाशयमनुप्रविश्य अतिसारं सर्वदोषलिङ्ग जनयन्ति ॥१०॥ अपि च शोणितादोन् धातूनतिप्रदुष्टान् दृषयन्तो धातुदोषस्वभावकृतानतोसारवर्णान् दर्शयन्ति। तत्र शोणितादिषु शीतादिभिरतीत्यस्यान्वयः। अभोजनादुपवासात्। किश्चिदभ्यवहरणात् अल्पाशनात्। प्रदुष्टमद्यप्रदुष्टपानीयपानात्। अतिमद्यातिपानीयपानात् । असंशोधनात् वमनविरेचनादिना संशोधनाभावात्। प्रतिकर्मणां तत्तद्रोग प्रतिकारक्रियाणां विषमगमनात् सम्यगयोगाभावात् तथा तत्तद्रोगाणां यथार्थोपचाराभावात्। ज्वलनायतिसेवनात्। ज्वलनो वह्निः आदित्यः सूर्यः पवनो लोकेचरो वायुः सलिलस्यातिसेवनमिहावगाहनादिना पूर्व यदुक्तं तदतिपानीयपानमिति एभिः कारणेस्त्रयो दोषाः प्रकुप्यन्ति व्यापन्नाग्नेश्च । प्रकुपितास्ते त्रयो दोषा भूय एवाग्निमुपहत्य पक्काशयमनुप्रविश्यातिसारं सर्वदोषलिङ्गं जनयन्ति ॥१०॥ गङ्गाधरः-अपिचातिप्रदुष्टान् शोणितादीन् धातून दुपयन्तो धातुदोषाणां स्वभावकृतान् धातुस्वभावकृतान् दोपस्वभावकृतानतिसारे पुरीषस्य वर्णानुपवातादिकतृत्वेन ज्ञेयम्। किंवा सर्वेषामेव विदोषकतृत्वं ज्ञेयम्। उक्तं हि-सव्वषां दोषाणाम् अग्निसंश्रितौ सामप्रकोपौ इति। किञ्चदभ्यवहरणादिति पथ्यापथ्यभोजनात्। अनुपवारादिति प्रतिकर्मणामेव असम्यगुपचारादित्यर्थः। सरिलातिसेवनादिस्यत्र अवगाहादीनां वाद्यसेवनं सलिलस्योच्यते अनुपानन्तु प्रागेवोक्तम् । विषनाग्निरिति वचनात् यथोक्तहेतूनाम् अग्निवधद्वारेणैव प्रायस्त्रिदोषकत्तु त्वं दर्शयति ॥ १० ॥ चक्रपाणि:-अपिचेत्यादिना विकृतिविषमसमवायविदोपजलक्षणमाह। .अतिप्रकृष्टं यथा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy