________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः चिकित्सितस्थानम्। ३०७३ स पुनः स्वभावाद गुरुमधुरशीतस्निग्धस्य पुंसोऽग्निमुपहत्य सौम्यस्वभावात् पुरीषाशयमुपगत्योपक्लेद्य चातिसाराय कल्पते ॥८॥ ___तम्य रूपाणि-स्निग्धं श्वेतं पिच्छिलं तन्तुमदामं गुरु दुर्गन्धमनुबद्धशूलमत्यल्पमभीक्ष्णमतिसाय॑ते सप्रवाहिकं गुरुतरं गुरूदरगुदवस्तिवङ क्षणदेशः कृतापकृतसंज्ञः सोत्क्लेशो निद्रालस्यपरीतः सलोमहर्षः सदनोऽन्नद्वषी च। इति श्लेष्मातिसारः॥६॥
अतिशीतस्निग्धरुक्षोष्णगुरु-खरकठिनविशद-विषमविरुद्धारहितस्य । दिवास्वप्नातिसेविनः। श्लेष्मा प्रकोपमापद्यते। स इत्यादि। स श्लेष्मा स्वभावात् प्रसिद्धगुर्वादिः पुसोऽग्निगुणविरोधी तेनाग्निमुपहत्य सौम्यस्वभावादधोगतित्वात् पुरीषाशयमुपगत्योपक्लेद्य च पुरीषमतिसाराय कल्पते। इति कफजातिसारसम्प्राप्तिः ॥८॥
गङ्गाधरः-तस्य रूपाणि इमानि। तद् यथा-स्निग्धमित्यादि। सोऽतिसारी पुमान् गुरुदरादिः सन् स्निग्धादिपुरीषं सप्रवाहिकं गुरुतरमतिसार्यते कफेन। सोत्क्लेशादिर्भवति। इति श्लेष्मातिसारः॥९॥
गङ्गाधरः-सन्निपातातिसारमाह। तस्य निदानम्-अतिशीतेत्यादि । श्लेष्मणोऽग्न्युपधाते हेतुमाह-सौम्यस्वभावादिति । सौम्यस्याग्नेविरुद्धत्वात् आघातं करोतीति युक्तमेवेति भावः। पुरीषाशयमुपहत्येति पुरीपाशयं गत्वा, हन्तेर्गतिहिंसात्मकत्वात् अत्र गत्यर्थेन, किंवा पुरीषाशयशब्देन स्थानेन स्थानिन उपचारात् पुरीषमेवोच्यते ; यथा माः क्रोशन्तोति, ततश्च पुरीषमुपहत्येति सम्बन्धः॥८॥
चक्रपाणि:-कृतेऽप्यकृतसंज्ञ इति कृतेऽपि वेगे न बुध्यत इत्यर्थः। अब च पित्तकफातिसारे सामतालक्षणं यद्यपि नोक्तं तथापि सामतातीसारसम्बन्धकृतविज्वरत्वगन्धित्वप्रकारैर्लक्षणैः आमातिसाररूपावस्था ज्ञयैव । तयाहि चिकित्सायां पित्तातिसारं निदानोपशयाकृतिभिः विदित्वेत्या. दिना रक्तातिसारे पृथक चिकित्सां वक्ष्यति, इलेप्मातिसारे तु सामे निरामे रुक्षोष्णादिरूपा चिकित्सा समानैवेति कृत्वा पृथगामश्लेष्मातीसारचिकित्सा नोक्ता। क्षारपाणिना सर्वातिसाराणां सामता पृथगुप्ता, वचनं हि "वातातिसारः सामश्च सशूलः फेनिलस्तनुः। श्यावः सशब्दो दुर्गन्धो विबद्रोऽल्पाल्प एव च"। एवं पित्तकफानां हि अतीसारं नि ईशेत् ॥९॥
चक्रपाणि:-अतिशीतेत्यादिना त्रिदोषजातीसारमाह। अत्र च शीतादीनां यथासम्भव
For Private and Personal Use Only