________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९श अध्यायः ] चिकित्सितस्थानम्। ३०७५ धालुषु नातिप्रदुष्टेषु छ हारिद्रहरितनीलमाञ्जिष्ठमांसधावनसङ्काशं रक्तं कृष्णं श्वेतं वा वराहमेदःसदृशम् अनुबद्धवेदनमतिवेदनं वा समासव्यत्यासादुपवेश्यते पुरीषम् । महद ग्रन्थितमामं शकृदपि + वा पक्कमनतिक्षीणमांसशोणितबलो मन्दाग्निविहतमुखरसस्तादृशमातुरं कृच्छ्रसाध्यं विद्यात्। एभिवणः अतिसार्यमाणं सोपद्रवमातुरमसाध्योऽयमिति प्रत्याचक्षीत । तद्यथा-काथशोणिताभं यकृत्पिण्डोपमं मेदोमांसोदकसदृशं दधिमजतैलक्षोरवसावेशवाराभमतिनीलम् अतिरक्तमतिकुष्णम् उदकमिव पुनर्मचकाभमतिस्निग्धं हरिताभं नीलकषायवणं कबूंरवणं वा आविलं पिच्छिलं तन्तुमदाम चन्द्रकोपदर्शयन्ति। तत्र नातिप्रदुष्टेषु शोणितादिषु धातुषु हारिद्रादिरूपं सभास. व्यत्यासादसमस्तरूपमुपवेश्यते पुरीषं वर्चस्त्याज्यते। तत्र कृच्छ्रसाध्यलक्षण माह-महदित्यादि। यस्य सनिपातातिसारिणः शकृत् पुरीषं महत् प्रचुरं ग्रन्थितमाम वा पक वा भवति, स यद्यनतिक्षीणमांसादिमन्दाग्निना विहतमुखरसो न तु दोषविहतमुखरसः स्यात्, तादृशं सन्निपातातिसारातरं भिषक कृच्छ साध्यं विद्यात्। असाध्यलक्षणमाह-एभिरित्यादि। एभिर्वक्ष्यमाणकाथशोणितामेत्यादिभिर्वर्णरतिसायंमाणं सोपद्रवमातुरं भिषगसाध्योऽयमति. सार इत्युक्त्वा प्रत्याचक्षीत प्रत्याख्यानं कुर्यादिति। कैर्णरित्यत आहतद यथेत्यादि। कार्थत्यादि। नानौषधिनिष्पचनकृतः कषायः काथः । तत्काथाभं शोणिताभश्च, कश्चिदाह काथवर्णरूपशोणिताभं यकृपिण्डोपमं कृष्णलोहितं मेदोमांसोदकसदृशं मेदःसदृशं मांसोदकसदृशं दध्यायाम वेशवारो "निरस्थि पिशितं खिन्नं पिष्टं गुड़घृतान्वितम्। कणामरिचसंयुक्तं वेशवार इति स्मृतः” इति। अतिनीलादिकम् उदकमिव पुनर्मेचकाभं वा मेचकं खञ्जनवक्षःस्थकृष्णपिण्डामं नीलकषायवर्ण नानौषधिकषायाभम् भवति तथा प्रदूषयन्त इत्यर्थः। मांसधावनं मांसप्रक्षालनोदकम् । समासव्यत्यासाइपवेश्यत इति समासो यथोक्तलक्षणानां मेलकः। सकृदिति कदाचित् । विहतमुखरसः इति विरसमुखः। एभिर्वक्ष्यमाणः। वेसवाराभं वेसवारसदृशं, तल्लक्षणञ्च निरस्थि पिशितं पिष्टमित्यादिना
• अतिप्रदुष्टेषु इति बहुषु प्रन्थेषु पाठः। सकृदपि इति चक्रभृतः पाठः ।
For Private and Personal Use Only