SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकोनविंशोऽध्यायः। अथातोऽतीसारचिकित्सितं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ भगवन्तं खल्वात्रेयं कृताहिकं हुताग्निहोत्रमासोनमृषिगणपरिवृतं हिमवत्पावें विनयादुपेत्याभिवाद्याग्निवेश उवाच, भगवन्नतीसारस्य प्रागुत्यत्तिनिमित्तलक्षणोपशमनानि तु प्रजानुग्रहार्थमाख्यातुमर्हसोति ॥२॥ ___ अथ भगवान् पुनर्वसुरात्रेयस्तदग्निवेशवचनमनुनिशम्य उवाच-श्रूयतामग्निवेश ! सर्वमेतदखिलेन व्याख्यायमानम् । आदिकाले तु यज्ञ षु पशवः समालम्भनीया बभूवुर्नालम्भाय प्रक्रियन्ते स्म। ततो दक्षयज्ञ प्रत्यवरकालं मनोः पुत्राणां नरिष्यन्नाभागेदवादिष्टशUत्यादीनां क्रतुषु पशव एवाभ्यनु गङ्गाधरः-उद्दिष्टानुक्रमात् कासचिकित्सितानन्तरमतिसारचिकित्सितमाह-अथात इत्यादि। पूववत् सर्च व्याख्येयम् ॥१॥ . गङ्गाधरः-भगवन्तमित्यादि । अग्निवेश ऋषिहिमवत उत्तरे पावें आसीनम् आत्रेयं विनयादुपेत्याभिवाद्य चोवाच। तद् यथा-भगषनित्यादि ॥२॥ गङ्गाधरः-तदुत्तरमाहात्रेयः-अथेत्यादि। अतिसाररोगस्य प्रागुत्पत्तिपुराहत्तमुवाच। आदिकाल इत्यादि । दक्षयज्ञ प्रति अवरकालं दक्षयज्ञादनन्तरं बहुकाले व्यतीते मनोः पुत्राणां नरिष्यन्नाभागादोनां क्रतुषु पशव एवाभ्य चक्रपाणि:-अग्निबलहानिसामान्यात् ग्रहणीदोषमनु अतिसार चिकित्सिते वक्तव्ये उपोद्धाततया पाण्डुरोगादिभिर्व्यवधानं कृतं, सम्प्रति तु उपोद्घातोक्तगण्डुरोगादीनभिधाय प्रकृतमतीसार. चि कत्सितमुच्यते। प्रागुत्पत्तिरिति प्राक्कालो पत्तिः ॥ १॥२॥ चक्रपाणिः-आदिकाले इति कृतयुगे। समालभनीया इति मन्त्रेण अभिमन्यव परित्याज्या बभूवुः न आलम्भार्थम् प्रक्रियन्ते स्म इति आलम्भाय मारणाय न प्रक्रियन्ते न संस्क्रियन्त इत्यर्थः। नरिष्यन्नाभागादिमनुपुत्रेषु। एवमेव मनुपुत्रमुदाहार्य यज्ञादिशब्दः क्रियते तदा तेषां ३८५ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy