________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६८
चरक-संहिता।
(कासचिकित्सितम्
तत्र श्लोको। भोज्यं पानानि सीषि लेहाश्च सह पानकैः । क्षोरसर्पिर्गुड़ा धूमाः कासभैषज्यसंग्रहः ॥ सङ्ख्यानिमित्तरूपाणि साध्यासाध्यत्वमेव च । कासानां भेषजञ्चोक्तं गरीयस्त्वञ्च कासिनः ॥ ७२ ॥
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने कासरोगचिकित्सितं नाम
अष्टादशोऽध्यायः॥१८॥
गङ्गाधरः-अध्यायार्थमाह-तत्र श्लोकाविति। भोज्यमित्यादिश्लोकद्वयम् ॥ ७२ ॥ इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते । अमाप्ते तु दृढ़बल प्रतिसंस्कृत एव च। कास चिकित्सितेऽष्टादशाध्याये वैद्यश्रीगङ्गाधरकविरत्रकविराजविरचिते . चर कजल्पकल्पतरौ षष्ठस्कन्धे चिकित्सितस्थानजल्पे कासरोग.
चिकित्सितजल्पाख्या अष्टादशी शाखा ॥ १८ ॥
चक्रपाणिः-विस्तारोक्तं कासभेषजं संगृह्णाति-भोज्यमित्यादि। संख्येत्यादि अध्यायार्थसंग्रहः सुगम इति ॥ ७२ ॥
इति महामहोपाध्याय-चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकाया घरकतात्पर्यटोकायां चिकित्सितस्थानव्याख्यायां कासचिकित्सित्तं
नाम अष्टादशोऽध्यायः ॥ १८॥
For Private and Personal Use Only