________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८ अध्यायः ]
चिकित्सितस्थानम् ।
दीपनं वृंहणञ्चैव स्रोतसाञ्च विशोधनम् । व्यत्यासात् क्षयकासिभ्यो बल्यं सव्र्व्वं हितं भवेत् ॥ ७० ॥ सन्निपातोद्भवो ह्येष चयकासः सुदारुणः । सन्निपातहितं तस्मात् कार्य्यमत्र भिषग्जितम् ॥ दोषानुबलयोगाच्च भवेद् रोगबलाबलम् । कासेष्वेषु गरीयांसं जानीयादुत्तरोत्तरम् ॥ ७१ ॥
*
Acharya Shri Kailassagarsuri Gyanmandir
निदर्शितं क्षयकासेऽपि तान् सानुष्ठानान् धूमान् यथावस्थं प्रयोजयेत् । दीपनमित्यादि । क्षयकासे यो यो दोषस्तत्तदोषव्यत्यासाद् विपय्ययाद् यद्यद्दीपनमौषधादिकं वृंहणञ्च स्रोतसां विशोधनञ्च बल्यञ्च तत् सर्व्व क्षयकासिग्यो हितं भवेत् ॥ ७० ॥
गङ्गाधरः- सन्निपातेत्यादि । हि यस्मात् एष क्षयकासः सन्निपातोद्भवः सुदारुणः सद्येनोपक्रान्तः सिध्यत्ययथोपक्रान्तो मारयति, तस्मात् सन्निपातस्य त्रिदोषस्य हितं यद् यदोषधादिकं तत् सर्व्वं भिषग्जितमत्र क्षयका से काय्र्यम् । दोषेत्यादि । रोगबलाबलं दोषानुबलयोगाच्च दोषानुबन्धयोगाच्च रोगबलाबलं भवेत् । एषु पञ्चसु कासेषु मध्ये उत्तरोत्तरं कासं गरीयांसं जानीयात् । वातकासाद् गरीयान् पित्तकासः, पित्तकासात् कफकासः, कफकासात् क्षतकासः, क्षतकासात् क्षयकास इति ॥ ७१ ॥
चक्रपाणिः - व्यत्यासादिति क्रियापरिवत्तनात् ॥ ७० ॥
चक्रपाणिः - क्षयकासस्य सनिपातोद्भव इत्यादिना सान्निपातिकत्वमभिधाय दोषोद्र क विशेषानुबन्धरूपेण चिकित्सा विशेषसूत्रमाह - " दोषानुबन्धयोगाच्च हरेद् रोगबलाबलम्” ।
अत्र
।
त्यध्याहार्यम् | दोषाणामनुबन्धः उत्कर्षापकर्षादिना सम्बन्धः तदपेक्षयोगः अस पञ्चमी हेतौ । अन्ये तु दोषानुबन्धरूपेण भेषजयोगेन रोगस्य क्षयकासस्य प्रबलवन्तञ्च दोष हरेत् । तस्मिन् न तु युक्तं हरेद् रोगबलाबलमिति । अन्ये तु दोषानुबल्योगाच्च कुर्य्याद् रोगबलाबलमिति पठन्ति । तेन दोषानुबन्धयोगात् रोगबलाबलं बुद्धा कुर्य्याद् भिषग्जितमिति सम्बन्धः । कासेष्विति वातपित्तकफक्षतक्षयजेषु ॥ ७१ ॥
दोषानुबन्धयोगाच हरेत् इति चक्रः ।
३०६७
For Private and Personal Use Only