________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०६६
चरक-संहिता। (कासचिकित्सितम् पत्रकल्कं घृते भृष्टं तिल्वकस्य सशर्करम् । पेया चोत्कारिका छर्दि-तृटकासामातिसारनुत् ॥ गौरसर्षपगण्डीर-विडङ्गव्योषचित्रकान् । साभयान साधयेत् तोये यवागू तेन चाम्भसा ॥ ससपिर्लवणा कासे हिक्काश्वासे च पीनसे। पाण्डामये क्षये शोषे कर्णशूले च शस्यते ॥६॥ कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः। सगौरामलकः साम्लः सर्वकासे भिषगजितम् ॥ ६६ ॥ वातघ्नौषधनिःस्वार्थ क्षीरयूषान् रसानपि । वैष्किरप्रतुदादीनां दापयेत् क्षयकासिने ॥ क्षतकासे च ये धूमाः सानुष्ठाना निदर्शिताः। क्षयकासेऽपि तानेव यथावस्थं प्रयोजयेत् ॥ गङ्गाधरः-पत्रेत्यादि। तिल्वकस्य लोध्रस्य पत्रकल्कं घृते भृष्टं सशर्करमुत्कारिका कृता पेया पातव्या छयादिनुत् । गौरेत्यादि। गौरसर्षपः, गण्डीरः समठः, अभयाः, तान् कर्षमात्रान् प्रास्थिके तोये पचेदर्द्धशिष्टेन तेनाम्भसा यवागू साधयेत्। सा यवागूः ससपिलवणा कासादिषु शस्यते ॥ ६८॥
गङ्गाधरः-कण्टकारीत्यादि। कण्टकारीकर्ष प्रास्थिके जले पक्त्वा शिष्टे रसे सिद्धो मुद्गयषः सपिर्मरिचादिना सुसंस्कृतः गौरा हरिद्रा आमलकफलं ताभ्यां साम्लः सर्वकासे भिषगजितम् ॥ ६९॥
गङ्गाधरः-वातेत्यादि। वातघ्नौषधं भद्रदार्वादि तेषां निकाथं क्षयकासिने दापयेत् । तथा तेन काथेन सिद्धं क्षीरं गूषांश्च दापयेत् तथा वैष्किरान् रसान् दापयेत् तथा प्रतुदादीनां रसान् दापयेत्। आदिना प्रसहादीनां रसान् दापयेत्। क्षतेत्यादि। क्षतकासे च ये धमा यद्यदनुष्ठानं चक्रपाणिः-उत्कारिकेति पत्नकल्केनेत्यादिना। गण्डीरः शमठः ॥ ६८ ॥ चक्रपाणिः-गौरामलक आमिलकः, साम्ल इति दाडिमादियोगादम्लः ॥६९ ॥
For Private and Personal Use Only