________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसायनपाद ३
२३१२ चरक-संहिता।
अशांसि ग्रहणीदोषं पाण्डुतां विषमज्वरम् । वैस्वय्य पीनसं शोर्फ गुल्मं वातबलासकम् ॥६॥
इति पिप्पलीरसायनम् । क्रमवृद्धया दशाहानि दशपैप्पलिकं दिनम् । वर्द्धयेत् पयसा साद्धं तथैवापनयेत् पुनः॥ जीर्णेऽजीणे च भुञ्जीत षष्टिकं क्षीरसर्पिषा। पिप्पलीनां सहस्रस्य प्रयोगोऽयं रसायनः॥
वत्सरं यावत् प्रयोगः शुद्धतनुना कुटीं प्रविश्य विधेयः। शोफं श्वयथुम् ॥९॥
गङ्गाधरः-प्रकारान्तरमाह-क्रमेत्यादि। दश पिप्पल्यो यत्र दिने तद दशपैप्पलिकं दिन,क्रमेण वृद्धया दशपेप्पलिकं दिनं यथा स्यात् तथा पयसा सार्द्ध सह दशाहानि वर्द्धयेत् तथा दशाहानि क्रमापकर्पण पुनरपनयेत् हासयेत् पयसा सार्द्धमेव। जीर्ण चास्मिन्नौपधेऽजीणं वास्मिन्नौपधे क्षीरसर्पिषा पष्टिकमन्नं भुञ्जीत। एवमेकोनविंशतिदिनप्रयोगे एकीकरणे यावद्भवति तदाह-पिप्पलीनामित्यादि। ननु पयोदृद्धिः कियन्मानेन कर्तव्या किं तन्त्रान्तरप्रोक्तमानेन ? तद् यथा! हारीतः-त्रिपञ्चसप्तदश वा प्रकुञ्चपयसा सह । पिबेत् क्रमात् त्रैदोषिकः पित्तवातकफान जयेत् इति। भोजश्च त्रिपञ्चसप्तदश वा पिप्पल्यः पयसा सह। प्रकुञ्चद्धेन पिवेन्नरः प्रोक्तान गदान जयेत् इति। इति चेन्न, तयोहि पञ्चसप्तपिप्पलीप्रयोगदृष्टवाद योगान्तरसात् । परन्तु पिप्पल्यनुरूपेण क्रमद्धपयसा सार्द्ध बोध्यमिति कश्चित्। प्रत्यहं पलमानेन दुग्धवृद्धया पयोबाहुल्ये तथा कार्यमिति व्यवस्था । दशदशटद्धया षट्पपिप्पलीटद्धया वा त्रित्रिपिप्पलीटद्धता वा चरकाचार्य
संयुक्तानां पिप्पलीनामभ्यासे न विरुद्धम्। [किंवा उक्तपिप्पलीरसायनव्यतिरेकेणोत्सर्गापवादन्यायात स निषेधो ज्ञेयः । किंशुकः पलाशः ॥९॥
चक्रपाणिः-पिप्पलीवर्द्धमानमाह-क्रमवृद्धेपत्यादि। दश पिप्पल्यो यत्र वर्द्धन्ते ताद्दनं दशपिप्पलिकम्, तेन प्रत्यहं दश पिप्पल्यो वर्द्धनीया इत्यर्थः, ततश्चोनविंशतिदिनैवृद्धि हान क्रमेण
For Private and Personal Use Only