________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चिकित्सितस्थानम्। २३१३ पिष्टास्ता बलिभिः पेयाः शृता मध्यवर्नरः। चूर्णीकृता ह्रस्वबलोज्या दोषामयान् प्रति ॥.. दशपैप्पलिकः श्रेष्ठो मध्यमः षट्प्रकीर्तितः।
प्रयोगो यस्त्रिपर्यन्तः स कनीयान् स चाबलैः॥ वचनात् । ननु पिप्पल्यः कथंकारं प्रयोक्तव्या इत्यत आह --पिष्टा इत्यादि । बलिभिबैलवद्भिः पुरुषैः पिष्टास्ताः पिप्पल्यः प्रयोज्याः। मध्यवलैः शृताः पोड़शगुणेन जलेन पक्त्वा चतुर्थावशेषमष्टावशिष्टं वा कृता पयसा मिश्रीकृत्य पेयाः। ( इस्ववलैः शीतीकृत्य शीतकपायं कृखा योज्याः ।) ननु दशपिप्पलीः उपयोक्तुमसमर्थाः किं कुर्य्यरित्यत आह-दशेत्यादि। षट् प्रकीर्तिताः पिप्पल्यो यत्र षट्प्रकीर्तितः स मध्यमः प्रयोगः। तथा च प्रथमदिनं दश पिप्पलीः पयसालोड्य पिवेत्, द्वितीयेऽह्नि विंशति, तृतीये त्रिंशतं, चतुर्थे चखारिंशतं, पञ्चमे पञ्चाशतं, पष्ठे पष्टिः, सप्तमे सप्ततिम्, अष्टमे अशीति, नवमे नवति, दशमे शतम् इति वृद्धिस्ततो हासः। एकादशे नवति, द्वादशे अशीति, त्रयोदशे सप्तति, चतुर्दशे पष्टिं, पञ्चदशे पश्चाशतं, पोड़शाहे चखारिंशतं, सप्तदशाहे त्रिशतम्, अष्टादशाहे विंशतिम्, एकोनविंशाहे दश इति दशद्धग्रा प्रयोगः समाप्तः। पपिप्पलीद्धया तु प्रथमाहे पर पिप्पल्यः, द्वितीये द्वादश, तृतीये अष्टादश, चतुर्थ चतुविंशतिः, पञ्चगे त्रिशत्, पष्ठे पनि शत्, सप्तमे द्विचखारिंशत्, अष्टमे अष्टचखारिंशत्, नवमे चतुःपञ्चाशत्. दशमे पष्टिः, एकादशे पट्पष्टिः, द्वादशे द्वासप्ततिः, त्रयोदशे अष्टासप्ततिः इति क्रमात् षट्पपिप्पलीटद्धया समुदायेन पट्चवारिंशदुत्तराणि पञ्चशतानि भवन्ति । ततश्चतुर्दशदिने पपिप्पलीहासेन द्विसप्ततिः, पञ्चदशाहे षट्पष्टिः, षोड़शाहे षष्टिः, सप्तदशाहे चतुःपञ्चाशत्, अष्टादशाहेऽष्टाचवारिंशत्, एकोनविंशाहे द्वाचवारिंशत्, विंशाहे पत्रिंशत्, एकविंशाहे त्रिंशत्, द्वाविंशाहे चतुर्विंशतिः, त्रयोविंशाहे अष्टादश, चतुविशाहे द्वादश, पञ्चविंशाहे षट् इति, एकीभूय चतुर्दशोत्तरं पिप्पलीसहस्र भवति ; न चाधिक्ये प्रयोगहानिः अत एव दशटद्धा पिप्पलीनां सहस्रस्य प्रयोगे यथा तथा षड्वृद्धग्रा चतुर्दशोत्तरपिप्पलीसहस्रप्रयोगोऽयं रसायनः। एवं त्रिद्धाएकेनैव सहस्र पूर्ण भवति । चूर्णीकृता इत्यत्र शीतीकृता वा पाउः । पिप्पलीवर्द्ध मानक्रमयुक्तमुत्कृष्टं दर्शयन्नपरमपि वर्द्ध मानक्रमद्वयं मध्यमत्वावरत्वाभ्यामाह-दशेत्यादि। प्रकीर्तित इति
For Private and Personal Use Only