________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चिकित्सितस्थानम्। २३११ आयुःप्रदान्यामयनाशनानि बलाग्निवर्णस्वरवर्द्धनानि । मेध्यानि चैतानि रसायनानि मेध्या विशेषेण च शङ्खपुष्पी॥७॥
इति मेधाकररसायनानि । पञ्चाष्टौ छ सप्त दश वा पिप्पलीमधुसर्पिषा। रसायनगुणान्वेषी समामेकां प्रयोजयेत् ॥८॥ तिनस्तितस्तु पूर्वाह्न भुक्त्वाग्रे भोजनस्य च। पिप्पल्यः किंशुकक्षार-भाविता घृतभर्जिताः॥ प्रयोज्या मधुसर्विभ्यां रसायनगुणैषिणा।
जेतु कासं चयं श्वासं शोषं हिकां गलामयान् ॥ क्षीरसपिःशालिपष्टिकोदनाशनं विधेयम्। एषां मण्डकमर्णीवद् वा प्रयोगः कार्यः। समानाशिष्ट्वात् दिनमानं मण्डकपर्णीवदिति । मेध्या विशेषेणातिशयेन शङ्खपुष्पी मण्डूकपर्ष्यादिषु मध्ये बोध्या॥७॥ मेधाकररसायनानि ।
गङ्गाधरः-योगान्तरमाह-पञ्चेत्यादि । पञ्च वा पिप्पलीः अष्टौ वा पिप्पलीः सप्त वा पिप्पलीदश वा पिप्पलीश्चर्णीकृताः कल्कीकृता वानुरूपेण मधुसपिपा वत्सरातीतेन देहबलापेक्षया संशुद्धतनुः कुटी प्रविश्य रसायनगुणान्वेपी समामेकामेकवत्सरं व्याप्य प्रयोजयेत् जीर्णे च क्षीरशालिषष्टिकाशनमद्यात् ॥८॥
गङ्गाधरः - कल्पान्तरमाह-तिस्र इत्यादि। रसायनगुणैषिणा पुंसा किंशुकक्षारभाविताः पलाशक्षारोदकेन सप्तधा भाविताः पिप्पल्यो घृतभर्जिता वत्सरातीतघृतेन किश्चिद्भष्टास्तिस्रः कल्कीकृताश्चर्णिता वा मधसर्पिभ्यां वत्सरातीताभ्यां पूर्वाह्न प्रयोज्याः। तथाविधाश्च तिस्रस्तथैव प्रकारेण भोजनस्याग्रे च प्रयोज्याः। पुनस्तथाविधास्तिस्रः पिप्पल्यस्तेनैव प्रकारेण भुक्त्वा भोजनस्यान्ते च प्रयोज्याः। भोजनन्तु क्षीरसर्पिरोदन इति ।
चक्रपाणिः- मण्डूकपर्ध्या इत्यादयश्चत्वारो योगाः ॥७॥
चक्रपाणिः - पञ्चे त्यादौ संण्याव्यतिक्रमणानुक्तसंख्यानामपि पिप्पलीनामुपयोगं सूचयति । यद्यपि “वीण्यपि द्रव्याणि नात्युपयुञ्जीत पिप्पलीक्षारलवणानि" इत्युक्तम्, तथापीह द्रव्यान्तर* अष्टावित्यत्र पट् इति बहुषु ग्रन्थेषु पाठः ।
For Private and Personal Use Only