________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद३
२३१०
चरक-संहिता। सर्पिषश्च पलं दद्यात् तदैकथ्यं प्रयोजयेत् । घृतप्रभूतं सनौद्र जीणे चान्नं प्रशस्यते ॥ जराव्याधिप्रशमनं स्मृतिमेधाकरं परम् । आयुष्यं पौष्टिकं बल्यं स्वरवर्णप्रसादनम् ॥ परमूजस्कर-8-चैतत् सिद्धमैन्द्र रसायनम् ।
नैनं प्रसहते कृत्या नालक्ष्मीन विषं न रुक ॥ श्वित्रं सकुष्ठं जठराणि गुल्माः प्लीहा पुराणो विषमज्वरश्च । मेधास्मृतिज्ञानहराश्च रोगाः शाम्यन्त्यनेनातिबलाश्च वाताः ॥६॥
इत्यैन्द्ररसायनम्। मण्डूकपर्णाः स्वरसः प्रयोज्यः क्षीरेण यष्टीमधुकस्य चूर्णम् । रसो गुड च्यास्तु समूलपुष्प्याः कल्कः प्रयोज्यः खलु शकपुष्पाः॥ तिलपरिमाणं भागं सर्पिषश्च वत्सरातीतस्य पलमष्टतोलकं तोलकप्रमाणन्तु दशरक्तिकमानमाषकाष्टकं तथाविधाष्टतोलकं पलं दद्यात् । सर्वमेतदेकथ्यं मिश्रीकृत्य संशुद्धतनोः कुटी प्रविष्टस्य प्रयोजयेत् । जीर्ण च तस्मिन्नौषधे घृतप्रभूतं घृताढा सक्षौद्रमन्नं शालिपष्टिकान्नं प्रशस्यते। एनमैन्द्ररसायनपरं पुरुष कृत्या न प्रसहते नाक्रमते न चालक्ष्मीनं च विष न च रुक्। अस्यापि संवत्सरप्रयोगो बोध्यः प्रकरणात् ॥६॥ ऐन्द्ररसायनम् ।। ... गङ्गाधरः-योगान्तरमाह-मण्डूकपर्ध्या इत्यादि। मण्डूकपा दन्त्याः स्वरसः प्रयोज्यः। प्रयोगविधिराशिषश्च मण्डकपाः सुश्रुतोक्ताः पूर्व लिखिता मया। यष्टीमधुकस्य चूर्ण क्षीरेण प्रयोज्यं यथोक्तागारप्रवेशादिपूर्वकक्षीरसर्पिरोदनाशनस्येति। एवं गुडूच्याः स्वरसो यथावलं संशुद्धदेहेन कुटी प्रविश्य प्रयोज्यः। जीर्ण सर्पिःक्षीरोदनाशनं विधेयमिति। शङ्खपुष्प्याः समूलपुष्प्याः कल्को यथावलं शुद्धतनुना कुटौं प्रविश्य प्रयोज्यः। जीर्ण माहुः। त्रियवकानिति त्रियवप्रमाणतुल्यान्। घृतप्रभूतमित्यन्नविशेषणम् । कृत्याभिचारः ॥ ६॥ * परमोजस्करन्चैतत् इति च पाठः ।
For Private and Personal Use Only