________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(RO
१म अध्यायः चिकित्सितस्थानम्।
२३०६ नाभिघातैर्न चातकैर्जरया न च मृत्युना । स बाध्यः ॐ स्याद् गजप्राणः सदा चातिबलेन्द्रियः॥ धीमान् यशस्वी वाकसिद्धः श्रुतधारी महाबलः ।। भवेत् समां प्रयुञ्जानो नरो लोहरसायनम् ॥ ५॥
इति लोहादिरसायनम् । . ऐन्द्री मत्स्याक्षिको ब्राह्मी वचा ब्रह्मसुवच्चला। पिप्यल्यो लवणं हेम शङ्खपुष्पी विषं घृतम् ॥ एषां त्रियवकान् भागान् हेमसर्पिविषैर्विना।
द्वौ यवो तत्र हेनस्तु तिलं दद्याद् विषस्य च ॥ जीणे च सात्मत्रायुष्यभोजनमिति ख्यापितम्। ननु कियन्ति दिनान्यस्य प्रयोगः कर्त्तव्य इत्यत आह-नाभिघातरित्यादि। इदं लौहरसायनं हेमरसायनं रजतरसायनं वा समां संवत्सरं व्याप्य प्रयुञ्जानो नरो नाभिघातः संप्रहरणवजादिप्रहारने चातक व्याधिभिने च जरया न च मृत्युना मरणेन वाध्यः स्यात् गजवत् प्राणादिश्च स्यादिति। लोहरसायनं हेमरसायनं रजतरसायनश्च ॥५॥
गङ्गाधरः--ऐन्द्रीत्यादि। ऐन्द्री गोरक्षकर्कटी मत्स्याक्षिको त डुलीयमूलं ब्राह्मी शाकविशेषः वचा ब्रह्मसुवर्चला मूर्यभक्ता ; सुश्रुते तल्लक्षणमुत्पत्तिस्थानश्चोक्तं-"कनकाभा जलान्तेषु सर्वतः परिसपेति। सक्षीरा पद्मिनीप्रख्या शे या ब्रह्मसुवर्चला" ॥ इति। पिप्पल्यो मगधोद्भवाः। लवणं सिन्धद्भवम् । हेम सुवण, तस्य च उपयोगार्थ पूर्वोक्त विधानेन चर्ण कर्त्तव्यम् शङ्खपुष्पी चोरपुष्पी विषं मौलविषं वत्सनाभादिकं यौगिकं, न चायौगिक कालकूटादिकम् । (घृतम् )। एषामेकादशानां हेमसर्पिविषैविनाष्टानां द्रव्याणां प्रत्येकं त्रियवकान् यवत्रयमितान् भागान् तत्र हेम्नो द्वौ,यवौ विषस्य च तिलं इति निर्वापयेत् । तदेवेत्यामलकरसम् । लौहानाम् इत्यनेनैव लौहान्तर्निविष्टयोः सुवर्ण रजतयोः ग्राह्ययोर्ग्रहगे सिद्धे पुनस्तयोर्वचनं तयोविशेषेणादरोपदर्शनार्थम् । रसायनप्रभावादेव महाधनत्वमिति ज्ञेयम् ॥५॥
चक्रपाणिः-मत्स्याख्यको मच्छुरिति लोके ख्यातः, अन्ये तु ऐन्द्रीभेदं मत्स्याख्यक* पृष्य इति वा पाठः।
+ महाधनः इति चक्रः।
For Private and Personal Use Only