SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ रसायनपाद ३ २३०८ चरक-संहिता। ज्ञात्वा तान्यञ्जनाभानि सूक्ष्मचूर्णानि कारयेत् । तानि चूर्णानि मधुना रसेनामलकस्य च ॥ युक्तानि लेहवत् कुम्भे स्थितानि घृतभाविते । संवत्सरं निधेयानि यवपल्वे तदेव च ॥ दद्यादालोड़नं मासे सर्वत्रालोड़यन् बुधः । संवत्सरात्यये तस्य प्रयोगो मधुसर्पिषा ॥ प्रातःप्रातर्बलापेक्षी सात्म्यं जीणे च भोजनम् । एष एव च लोहानां प्रयोगः संप्रकीर्तितः॥ अनेनैव विधानेन हेनश्च रजतस्य च । आयुःप्रकर्षकृत् सिद्धः प्रयोगः सर्वरोगनुत् ॥ भस्मक्षारोदके क्षिपेत्। एवं क्रमेण शोधयेत् । ततस्तानि तीक्ष्णायसपत्राण्यञ्जनाभानि शाखा सूक्ष्मचर्णानि कारयेत्। तान्यायसस्य सूक्ष्मचर्णानि मधना संवत्सरातीतमधुनामलकस्य स्वरसेन च समेन मेलयिखा लेहवत् युक्तानि कृता घृतभावितकुम्भे स्थितानि कृला यवपल्वे यवपल्वराशी संवत्सरं निधेयानि कारयेत् । तच्च लेहवदौषधं बुधो भिषक् मासे मासे सर्वत्रालोड़यन सन्आलोडनं सममधु आमलकरसं दद्यात्। ततः संवत्सरात्यये तस्य सिद्धस्यायसस्य मधसपिषा मात्रया प्रयोगः कुटीप्रविष्टेन संशुद्धदेहेन स्वबलापेक्षिणा प्रातःप्रातः कार्याः। जीणे च सति भुक्ते तल्लोहे सात्म्यं भोजनम्। एष एव लौहानाञ्च सिद्धः प्रयोग आयुःप्रकर्षकृत् सर्वरोगनुत्। अनेन विधानेन हेम्नश्च स्वर्णस्य रजतस्य च रूप्यस्य एप एव सिद्धः प्रयोगः आयुःप्रकर्षकृत् सर्वरोगनुच्च। एतेन स्वर्णस्य रूप्यस्य च चतुरङ्ग लदीर्घाणि तिलोत्सेधसमपत्तलानि पत्राणि त्रिफलारसगोमूत्रादिषु शोधयेत्। ततोऽञ्जनाभानि सूक्ष्मचर्णानि कारयेत् । ततस्तानि मधुनामलकरसेन च समेन युक्तानि कृता घृतभावितकुम्भे संस्थाप्य यवपल्वराशी संवत्सरं निधापयेत् मासे मासे सर्वत्र आलोडयन्नालोडनं सममध्वामलकरसं दद्यात्। वत्सरान्ते तस्य मधुसर्पिषा प्रातःप्रातः पुरुषस्य कुटीप्रविष्टस्य संशुद्धदेहस्य बलापेक्षिमात्राप्रयोगः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy