________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
म अध्यायः ] चिकित्सितस्थानम् ।
२३०७ भवन्त्यमृतसंयोगात् तानि यावन्ति भक्षयेत् । जीवेद वर्षसहस्राणि तावन्त्यागतयौवनः॥ . सौहित्यमेषां गत्वा तु भवत्यमरसन्निभः। स्वयञ्चास्योपतिष्ठन्तै श्रीवेदा वाक च रूपिणी ॥४॥
इति केवलामलकरसायनम् । त्रिफलाया रसे मूत्रे गवां नारे च लावणे। क्रमेण चेङ्गदीक्षारे किंशुकक्षार एव च ॥ तीक्ष्णायसस्य पत्राणि वहिवर्णानि वापयेत् ।
चतुरङ्ग लदीर्घाणि तिलोत्सेधसमानि च ॥ तावन्ति फलानि प्रचिनुयादिति निष्कर्षः। तस्याशिषमाह - तानीत्यादि। तान्यामलकफलानि यावन्ति यावत्संख्यकानि भक्षयेत् तावन्ति वर्षसहस्राणि आगतयौवनः सन् जीवेत् । एषामुक्तानामामलकफलानां साहित्यं यावत्क्षुधं भुक्त्वा तृप्ति गखा स पुमान् अमरसन्निभो भवति अस्य तदामलकफलसौहित्यं गतस्यास्य श्रीलक्ष्मीः स्वयमुपतिष्ठते वेदाः स्वयमुपतिष्ठन्तेऽधीताभ्यस्तवदुपस्थिता भवन्ति । वाक् सरस्वती रूपिणी मूर्तिमती च देवी स्वयमुपतिष्ठते। इत्यर्थः ॥ ४॥ इति केवलामलकरसायनम् ।।
गङ्गाधर : --योगान्तरमाह-त्रिफलेत्यादि। चतुरङ्गलदीर्घाणि तिलोत्सेध समानि पत्तलीकृतानि तीक्ष्णायसस्य पत्राणि वह्नौ तापयिखाग्निवर्णानि कृखा पूर्व त्रिफलायाः रसे काथे वापयेत् क्षिपेत्। ततः उद्धत्य पुनर्वह्नौ दग्ध्वा वह्निवर्णानि कृखा गोमूत्रे वापयेत् क्षिपेत्। तत उद्धत्य पुनर्वह्नौ दत्त्वा वह्निवर्णानि कृखा क्षारे यवक्षारोदके क्षिपेत् । तत उद्धृत्य पुनस्तानि तीक्ष्णायसपत्राणि वह्नौ दत्त्वा वह्निवर्णानि कृखा लावणे सैन्धवलवणोदके क्षिपेत् । तत उद्धत्य पुनस्तानि वह्नौ दत्त्वा वह्निवर्णानि कृवा इङ्गदीक्षारे जीवपुत्रिककाष्ठक्षारोदके क्षिपेत। तत उद्धृत्य पुनस्तानि वह्नौ दत्त्वा वह्निवर्णानि कृत्वा किंशुकक्षारे पलाशकाष्ठओंकारं जपन् । अमृतागमादिति अमृतागमपर्यन्तम् , सौहित्यमेषामिति करणे षष्ठी । वेदवाक्यरूपिणीति तदधिष्ठात्री देवता ॥४॥
चक्रपाणिः-क्षार इति परिस्राविणि क्षारोदके । क्षारे लावण इति ज्योतिष्मत्याः क्षारे । साधयेत् * वेदवाक्यरुपिणी इति चक्रः।
For Private and Personal Use Only