________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२३०६
चरक संहिता |
संवत्सरान्ते पौषों वा माघीं वा फाल्गुनी तिथिम् । त्र्यहोपवासी शुक्लस्य प्रविश्यामलकीवनम् ॥ वृहत्फलाढ्यमारुह्य द्रुमं शाखागतं फलम् । गृहीत्वा पाणिना तिष्ठे जपन् ब्रह्माभृतागमात् ॥ तदा वश्यममृतं वसत्यामलके क्षणम् । शर्करामधुकल्पानि स्नेहवन्ति मृदूनि च ॥
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद ३
संवत्सरान्ते पौष माघ फाल्गुनीं वा शुक्लपक्षस्य तिथि पौर्णमासीम् । ऋग्रहम् उपवासी भूखा परदिने पौष शुक्लां तिथिं पौणमासीं माघ फाल्गुनी वामलकीवनं प्रविश्य वृहत्फलाढ्य द्रुममामलकीहक्षमारुह्य स्वयं शाखागतं फलं पाणिना गृहीला ब्रह्म प्रणवं कतिधा जपन् तिष्ठेदा अमृतागमात् तत्र फले अमृतागमनपय्र्यन्तं यावदमृतागमनं तत्र फले भवति तावज्जपेत् । नन्वमृतागमनं यदि न स्यादित्यत आह- तदा हीत्यादि । हि यस्मात् । तदा तथाविधपुरुषस्य तत्र प्रणवजपकाले अवश्यं तत्रामलके अमृतं क्षणं कालं वसति न तु तत्र तद्वाभिचारः । ननु तत्रामृतावासः कथं बुध्येतेत्यत आह- शर्करेत्यादि । तान्यामलकफलान्यमृतसंयोगात् कषायाम्लादिरसान् त्यक्त्वा शर्करामधुकल्पानि मधुराणि भवन्ति । ननु तहि किं पुनःपुनस्तत्फलभक्षणेन परीक्षेतामृतवासः ? यत् तु फलं भक्षणेन शर्करामधुकल्पं नास्वायते तत् फलं त्यक्त्वा पुनः पुनर्ब्रह्म जपेदिति । रसतस्तदमृतवास लक्षणमुक्ता प्रत्यक्षलक्षणमाह- स्नेहवन्तीत्यादि । तथा च यावता कालेन तदामलकफलं स्निग्धमपूर्व्वं मृदु च लक्ष्यते तावत् प्रणव जपेत् ततः स्त्रिग्धमृदु च दृष्ट्रा तत् फलं पाणिना प्रचिनुयात् ततोऽपरफले तथा जपेदिति । क्षणकालेन यावन्ति फलानि भवन्ति तावन्ति प्रचिनुयात् क्षणादूर्द्ध ममृतं हि तत्र नावतिष्ठेत् “वसत्यामलके क्षणम्" इत्युक्तेः पूर्व्वमचितफलं यावता स्त्रिग्धत्वं मृदुत्वं न त्यजेत् तावत् कालं यावन्ति फलानि सम्भवन्ति
For Private and Personal Use Only
दर्शनार्थः। पौषादिषु संवत्सरान्तत्वं नियमाद्दिनगणनमारभ्य वर्षपूरणेन ज्ञेयम् । फाल्गुनीमित्यस्यान्ते प्राप्येति शेषः । “न द्र ममारोहेद्" इत्यस्य, इह 'आरुह्य द्र मम्' इति वचनेनापवादः । जपन् ब्रह्म ेति