SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः]] चिकित्सितस्थानम् । २३०५ तपसा ब्रह्मचर्येण ध्यानेन प्रशमेन च। रसायनविधानेन कालयुक्तिर्न ® चायुषा ॥ स्थिता महर्षयः पूर्वं न हि किश्चिद रसायनम् । ग्राम्याणामन्यकार्याणां सिद्धिश्चाप्रयतात्मनाम् ॥ इदं रसायनं चक्र ब्रह्मा वार्षसहस्त्रिकम् । जराव्याधिप्रशमनं बुद्धीन्द्रियवलप्रदम् ॥३॥ आमलकायसं ब्रह्मरसायनम् । संवत्सरं पयोवृत्तिर्गवां मध्ये वसेत् सदा। सावित्री मनसा ध्यायन् ब्रह्मचारी जितेन्द्रियः ॥ महावलाश्च सन्तो यावत् तप ऐच्छन् तावत् तपस्तेपुः, तपसा पुनर्ब्रह्मचादिना च रसायनविधानेन चायुषा सह कालयुक्तिन च तेषाम् अपरिमितकालप्रमाणमायुरित्यर्थः । ननु महर्षीणां पूर्व किं न तथाविधमायुरित्यत आह-स्थिता इत्यादि। पूर्व हि महर्षयः स्थिताः रसायनं किञ्चिदवस्थित ग्राम्याणामन्यकार्याणां तपःपरखादिरहितानामप्रयतात्मनां तेषां सिद्धिश्च न स्थिता, तेषान्तु सिद्धार्थ तदिदं रसायनं वर्षसाहस्रिकादिकं ब्रह्मा चक्रे ॥३॥ इत्यामलकायसम् । .. गङ्गाधरः--संवत्सरमित्यादि। पयोत्तिर्गव्यदुग्धमात्राहारः सन् संवत्सरं गवां मध्ये सदा दिवारानं वसेत् । किं कुर्छन् वसेदित्यत आहसावित्रीमित्यादि। सावित्री वेदोक्तां ब्रह्मगायत्री मनसा ध्यायन् जपन् । ब्रह्मचारी व्यवायरहितः जितेन्द्रियः मनःसंकल्परहितः तथा वसन् । इति कृष्णसाराजिनस्य। सम्प्रति रसायनस्य तपोब्रह्मचर्यध्यानादियुक्तस्यैव महाफलत्वं भवतीति दर्शयन्नाह-तपसेत्यादि। कालयुक्तेन चायुषेति अनियतकालयुक्तेन चायुपेत्यर्थः, नियतकालायुषं प्रति तु न रसायनं फलवदित्युक्तमेव । स्थिता इति दीर्घकालजीविनः । विपर्यायेण तपःप्रभृतिविरहे रसायनस्याफलतामाह-न हीत्यादि ॥ १-३॥ चक्रपाणिः-ब्रह्मचारित्वेनेन्द्रियनियमे लब्धेऽपि यतेन्द्रियपदसम्बन्ध इन्द्रियनियमातिशय्योप * कालयुक्तेन इति पाठान्तरम् । + यतेन्द्रिय इति धक्रः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy