________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद ३
२३०४
चरक संहिता | तस्मिन्नादकावशेषे रसे सुपूतै तान्यामलकचूर्णानि दत्त्वा गोमयाग्निभिर्वंशविदलशर तेजनानिभिर्वा साधयेत् । यावत् अपनयासस्य तमनुपदग्धमुपहृत्यायसीषु पात्रीष्यास्तोय्र्य शोषयेत्, सुशुष्कं तत् कृष्णाजिनस्योपरि दृशदि लचणपिष्टमयःस्थाल्यां निधापयेत् सम्यक् । तच्चूर्णमयश्चूर्णष्टभागसंप्रयुक्तं मधुसर्पिभ्र्भ्यामग्निबलमभिसमीक्ष्य प्रयोजयेदिति ॥ २॥
तत्र श्लोकाः । एतद् रसायनं पूर्वं वसिष्ठः कश्यपोऽङ्गिराः । यमदग्निर्भरद्वाजो भृगुरन्ये च तद्विधाः ॥ प्रयुज्य प्रयता मुक्त - श्रमव्याधिजराभयाः । यावदच्छंस्तपस्ते पुस्तत्प्रभावान्महाबलाः ॥
द्वैगुण्यात् पष्टुत्तरशतशरावोदकेन मन्दानौ साधयेत् । तस्मिन्नादृकावशेष षोड़शश वशिष्टे सुप्ते वस्त्रगालिते रसे काथे तानि पूर्वगृहीतानि आमलक स्वरसभावितानि चूर्णितान्यामलकानि दत्त्वा क्षिप्त्वा गोमयाग्निभिव्वन्यकामिभिरथवा वंशविलशराभ्यां तेजनैः प्रज्वालितैरग्निभिः साधयेत् । रसस्य तत्काथस्यापनयात् क्षयाद् यावत् तं चूर्ण पक्कमनुपदग्धं किञ्चिदाईत्वेनावशिष्टमुपहृत्य भवतायिसीषु पात्रीषु आस्ती विस्तीर्य शोषयेत् । ततः सुशुष्कं तं पक्वं चूर्ण कृष्णाजिनस्य कृष्णसारचर्म्मण उपरि दृशदि खल्वशिलायां लक्ष्णपिष्टमयः स्थाल्यां निधापयेत स्थापयेत तच्चर्णमयों लौह कान्तादिसंज्ञ पुटितं मारितं लौहशास्त्रोक्तविधिना मारितश्च स्वर्ण तच्चर्णा - नामष्टभागक भाग पृथक् गृहीत्वा त्र्यं मिश्रीकृत्य मधुसर्पिर्भयां यथाशिवलं यथोक्तं कुटीं प्रविश्य प्रयोजयेत् यावत् तदौषधावसानमिति । जीर्ण शालिषष्टिकाशनमेकवारं सर्पिषा पयसा ॥ २ ॥
गङ्गाधरः - अस्य पुरावृत्तमाह - तत्र श्लोका इत्यादि । एतदित्यादि । वसिष्ठादयो महर्षय एतद्रसायनं प्रयताः सन्तः प्रयुज्य श्रमादितो मुक्ताः सन्तो इह गोमयाग्न्यादापकरणानियमेनैव शत्तयुत्कर्षो भवतीति ऋषिवचनादुन्नीयते, यदुक्तं - " ऋषयस्त्वेव जानन्ति योगसंयोगजं फलम्" इति । एवमन्यवापि इतिकर्त्तव्यतानियमो व्याख्येयः । कृष्णाजिनस्य
For Private and Personal Use Only