________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः
चिकित्सितस्थानम् । २३०३ अथातः करप्रचितीयं रसायनपादं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ करप्रचितानां यथोक्तगुणानामामलकानामुद्धृतास्थ्नां शुष्कचूर्णितानां माघे फाल्गुने वा मासे त्रिसप्तकृत्वःस्वरसपरिपीतानां पुनःशुष्कचूर्णितानामाढकमेकं ग्राहयेत्। अथ जीवनीयानां वृहणीयानां स्तन्यजननानां शुक्रवर्द्धनानां वयःस्थापनानां षविरेचनशताश्रितीयोक्तानाम् औषधगणानां चन्दनागुरुधव-खदिरशिंशशासनसाराणाञ्च अणुशश्छिन्नानां निप्तानाम् अभयाविभीतकपिप्पलीवचाचव्यचित्रकविडङ्गानाश्च समस्तानाम् आइकमेकं दशगुणेन अम्भसा साधयेत् ।
गङ्गाधरः -अथ प्राणकामीयरसायनपादव्याख्यानन्तरमुद्दिष्टं करप्रचितीयम्। करचितानामित्यत्रोक्तकरचितार्थमधिकृत्य कृतं रसायनपादं व्याख्यास्यामः इत्यादि सर्च पूर्ववत् ॥१॥
गङ्गाधरः --करप्रचितानामित्यादि। करेण प्रचितानां यथोक्तगुणानाम् अभयामलकीयोक्तगुणानां त्रिःसप्तकृख इत्येकविंशतिवारान् स्वरसपरिपीतानां यथोक्तगुणानामेवामलकानां स्वरसेन भावितानां यथोक्तगुणानामामलकानां पुनःशुष्कर्णितानामाढ़कमेकमष्टशरावं ग्राहयेत् । अथानन्तरं जीवनीयादीनां पश्चानां दशकानां चन्दनादीनामासनान्तानां षण्णां साराणामणुशः सूक्ष्मसूक्ष्मखण्डशश्छिन्नानां क्षिप्तानां कुट्टितानामभयादीनां विडङ्गान्तानां सप्तानाञ्च समस्तानां मिलित्वादकमष्टशरावं दशगुणेनाम्भसा दशाढ़केन जलेन द्रव्य
चक्रपाणिः--आमलकरसायनत्वसाम्यादनन्तरं करप्रचितीयमुच्यते। 'करप्रचितानाम्' इतिपदं स्वयंपतितग्रहणं निषेधयते । माघे फाल्गुने वेति ग्रहणवचनात् तथैव गृहीतानामित्यधिकार इत्यागमादन्नीयते । स्वरस इहामलकस्यैव भवत्यधिकारात्।शाको वृहत्पवस्तरुः। क्षिप्तानामिति छिन्नानाम् ।
For Private and Personal Use Only