________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३०२
चरक संहिता ।
[ रसायनपाद ३
भवति । ३ । हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो ब्राह्मीस्वरसमादाय सहस्रसम्पाताभिहुतं कृत्वा यथाबलमुपयुञ्जीत जीर्णोपधश्चापरा यवागूम् अलवणां पिबेत्,क्षीरसात्म्यो वा पयसा भुञ्जीत । एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति । द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पादयति । नष्टञ्चास्य प्रादुर्भवति । तृतीयं सप्तरात्रमुपयुज्य द्विरुच्चारितं शतमप्यवधारयति । एवमेकविंशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति मूर्त्तिमती चैनं वाग्देव्यनुप्रविशति, सर्व्वाश्चैनं श्रुतय उपतिष्ठन्ति । श्रुतधरः पञ्चवर्षशतायुर्भवति । ४ । ब्राह्मीस्वरसप्रस्थद्वये घृतप्रस्थं विङ्गत डुलानां कुड़वं द्वे द्वे पले वचात्रिवृतयोः द्वादश हरितक्यामलकविभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकथ्यं साधयित्वास्वनुगुप्त' निदध्यात् । ततः पर्व्वविधानेन मात्रां यथाबलमुपयुञ्जीत । जीर्णे पयःसपिरोदन इत्याहारः । एतेनोद्ध मधस्तिर्य्यक क्रिमयो निष्क्रामन्ति, अलक्ष्मीरपक्रामति, पुष्करकर्णः स्थिरवयाः श्रुतिनिगादी त्रिवर्षशतायुर्भवति । एतदेव कुष्ठविषमज्वरापस्मारोन्मादविषभूतग्रहेष्वन्येषु च महाव्याधिषु च संशोधनम् आदिशन्ति । ५ । हृतदोष एवागारं प्रविश्य हैमवत्या बचायाः पिण्डमामलकमात्रमभितं पयसालोड्य पिवेत् जी में पयःसर्पिरोदन इत्याहारः । एवं द्वादशरात्रमुपयुञ्जीत । ततोऽस्य श्रोत्रं वित्रियते द्विरभ्यासतः स्मृतिमान भवति त्रिरभ्यासतः शतमादत्ते चतुर्द्वादशरात्रमुपयुज्य सर्व्वं तरति किल्विषं तार्क्ष्यदर्शनमुत्पद्यते शतायुश्च भवति । ६ । द्वे द्वे पले इतरस्या वचाया निःक्काथ्य पिबेत् पयसा, समानं भोजनं समाः पूर्वेणाशिषश्च । ७ । वचाशतपाकं वा सर्पिर्द्रोणमुपयुज्य पञ्चवर्षशतायुर्भवति, गलगण्डापची श्लीपदस्वरभेदां
पहन्ति इति ।। ८-१७॥ वेदश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित स्थाने प्राणकामीयरसायनपादो द्वितीयः ॥ २ ॥
प्रयोगा उक्ताः तत्र वलादिभिरष्टाभिः पुनर्नवान्तैश्च दशभिरष्टादश प्रयोगाः । अपरे त्वामलकघृतादयो व्यक्ता एव ॥ १६ ॥ १७ ॥
इति महामहोपाध्याय चरक चतुरामनश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकाय चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां प्राणकामीयरसायनपादव्याख्या ॥ २ ॥
For Private and Personal Use Only