________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५४
चरक-संहिता। कासचिकित्सितम् कट्फलं कत्तृणं भार्गी मुस्तं धान्यवचाभयाः। शुण्ठी पर्पटकं शृङ्गों सुराहश्च जले शृतम् ॥ मधुहिङ्ग्युतं पेयं कासे वातकफात्मके। कण्ठरोगे मुखे शूने श्वासहिक्काज्वरेषु च ॥ पाठाशुण्ठीशटीमूळ-गवाक्षीमुस्तपिप्पलीः । पिष्टा घम्बुिणा हिङ्ग-सैन्धवाभ्यां युताः पिबेत् ॥ नागरातिविषामुस्तं शृङ्गी कर्कटकस्य च। हरीतकी शटी चैव तेनैव विधिना पिबेत् ॥४१॥ तैले भृष्टश्च पिप्पल्याः कल्काक्षं ससितोपलम् । पिबद वा कफकासघ्नं कुलत्थसलिलप्लुतम् ॥ ४२ ॥ कासमाश्वविड़ भृङ्ग-राजवार्ताकजा रसाः। क्षौद्रयुक्ताः कफहराः सुरसस्यासितस्य च ॥४३॥
पेयम्। कटफलमित्यादि। कटफलादिकं जले शृतं काथविधिना पक्वं शीतं मधुहिङ्ग्युतं पेयं वातानुबन्धकफात्मककासे। पाठाभित्यादि। पाठगदी पिष्ट्वा हिडसैन्धवयुक्ता घम्माम्बुणा उष्णाम्बुना पिबेत् । नागरेत्यादि। नागरादीन् पिष्ट्वा तेनव विधिना घम्माम्बुणा पिबत् ॥४१॥ . गङ्गाधरः-तैल इत्यादि। सितोपलासमं पिप्पलीकल्काक्षं तैले भृष्टं कुलत्थसलिलप्लुतं पिबेद वा ॥४२॥ . गङ्गाधरः-कासमत्यादि। कासमईरसाश्वविड़ सभृङ्गराजरसवार्ताकरसाः क्षौद्रयुक्ताः कफकासहराः। असितस्य सुरसस्य कृष्णतुलसीपत्रस्य च रसो मधुयुतः कफकासहरः ॥४३॥
चक्रपाणिः-कालेषु तिष्वित्यत भोजनादिमध्यावसानेषु। मधुहिङ्गुयुतमित्यत्र माक्षिक हिङ्गुसिन्धुत्थेत्यादिवचनानुसारेण प्रक्षेप्यविधिनोष्णोदकेन हिङ्गुसैन्धवोपेतं पिबेदित्यर्थः ॥४१॥४२॥
चक्रपाणिः-सुरसस्यासितस्य कृष्णतुलसीपर्णजस्य ॥ ३ ॥
For Private and Personal Use Only