________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः] चिकित्सितस्थानम् । ३०५३
महिष्यजाविगोतीर-धात्रीफलरसैः समः। सर्पिः सिद्धं पिवद् युक्त्या पित्तकासनिवर्हणम् ॥३८॥ बलिनं वमनेनादौ शोधितं कफकालिनम्। यवान्नैः कटरुतोष्णः कफनैश्चापुरपाचरेत् ॥ ३६॥ पिप्पलोक्षारकैयूषैः कौलत्थैर्मूलकस्य च । लघून्यन्नानि भुञ्जीत रसैर्वा कटुकान्वितैः॥ धान्ववैलैस्तथा स्नेहैस्तिलसर्षपविल्वजैः। मध्वम्लोष्णाम्बु तक वा मद्य वा निगदं पिबेत् ॥ ४०॥ पौष्कारवयं मूलं पटोलं तैर्निशास्थितम् ।
जलं मधुयुतं पेयं कालेष्वन्नस्य रात्रिषु ® ॥ गङ्गाधरः-पहिषीत्यादि। महिषीक्षीराजालोरमेषीक्षोरगोक्षीरधात्रीफल रसैः सर्पिःसमैः प्रत्येकमकल्लं सिद्धं युक्त्या पिवेत् ॥३८॥
गङ्गाधरः-पित्तकासचिकित्सितानन्तरं कफकास चिकित्सितमाहबलिनमित्यादि। आदावङ्गत्वात् स्नेहस्वेदाभ्यामुपपन्नं कफकासिनं बलिनं वमनेन शोधितं कटुरुक्षोष्णैर्यवान्नैः कफघ्नैश्चान्नरुपाचरेत् ॥३९॥
गङ्गाधरः-तद यथा-पिप्पलीत्यादि। पिप्पलीयवक्षारसंस्कृतैः कौलत्थै पैः मूलकस्य च शुष्कस्य यूपैर्लघून्यन्नानि भुञ्जीत। कटुकरसान्वितर्धान्धमांसविलेशयमांसान्यतरमांसरसैर्वा भुञ्जीत। लघून्यन्नान्येव। तिलसर्षपविल्ववीजजैः स्नेहस्तथा लघून्यन्नानि भुञ्जीत। भोजनोत्तरं दध्यम्लमुष्णाम्बु तकं वा मद्य वा निगदं वा पिबेत् । यग्निगदं पेयं तदिह विवक्षितम् ॥४०॥
गङ्गाधरः-पौष्करेत्यादि। पुष्करमूलमारग्वधमूलं पटोलपत्रं समं, तः सह निशास्थितं जलं शीतकषायाख्यं मधुयुतमन्नस्य कालेषु तथा रात्रिषु
चक्रपाणिः-बलिनमित्यादिना कफकासचिकित्सामाह ॥ ३८ ॥३९ ॥ चक्रपाणि:-पिप्पलीक्षारकैरिति पिप्पलीक्षारसंस्कृतैः । धान्ववल्यरसैरिति विलेशयरसैः ॥४०॥ * रातिष्वित्यत वा त्रिषु इति पाठान्तरम् ।
For Private and Personal Use Only