________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५२
चरक-संहिता। कासचिकित्सितम तज्जं वा साधयेत् सर्पिः सक्षीरेक्षुरसं भिषक् । जीवकाद्यमधुरकैः फलश्चाभिषुकादिभिः॥ कल्कैस्त्रिकार्षिकैः सिद्ध घृते शीते प्रदापयेत् । शर्करापिप्पलीचूर्ण त्वक्क्षी- मरिचस्य च ॥ शृङ्गाटकस्य चावाप्य क्षौद्रगर्भान् पलोन्मितान् । गुड़ान् गोधूमचूर्णेन कृत्वा खादेख़िताशनः । शुक्रामृग्दोषशोषेषु कासक्षीणक्षतेषु च ॥ ३६ ॥ शर्करानागरोदीच्यं कण्टकारों शटी समाम् । पिष्टा रसं पिबेत् पूतं वस्त्रण घृतमूर्छितम् ॥ ३७॥
श्रावणी मुण्डेरी। श्रावणीयुगहतीयुगैः। जीवको जियाला। एतदन्तैः शृतं क्षीरं पित्तकासिप्रभृतिः पिबेत् ॥ ३५॥ __ गङ्गाधरः-तज्जं वेत्यादि। तैः शृतक्षीरजं सर्पिः सक्षीरेक्षुरसं समक्षीरं त्रिगुणेारसम् । जीवकादिभिर्दशभिर्मधुरकफलैः द्राक्षाखजू रादिभिरभिषुकादिभिश्च प्रत्येकं त्रिकार्षिकः कल्कैः साश्येत् । सिद्धे पूते शीते च सति शर्करादीनि शृङ्गाटकान्तानि चूर्णीकृत्यावाप्य सर्च पादिकं घृतात् प्रदापयेद् यथा घनं स्यात् । तस्य गोधूपचूर्णन सह मेलनेन पलोन्मितान् शष्कुलीवद गुड़कान् कृखा मध्ये क्षौद्रं पूरयिखा पक्त्वा खादेत् । शेषमाशीरिति ॥३६॥
गङ्गाधरः-शर्करेत्यादि। नागरादीन्यााणि समानि पिष्ट्वा वस्त्रेण पूतं रसमेकद्रव्यसमां शर्करां मिश्रयित्वा घृतेन समेन खजेन मूर्च्छितं मिलितं कृला पिबेत् ॥३७॥
चक्रपाणि:-अभिषुकादयः वातपित्तहराः “वातामाभिषुकाक्षोट-मकूलकनिको वकाः" इति प्रन्थोक्ताश्चत्वारो ज्ञेयाः । जीवफादयश्च जीवनीयगणोक्ताः। शर्करादीनाश्च क्षयोक्तसर्पिर्मानानुसारेण मानमत्र ज्ञेयम् ॥३६॥
चक्रपाणिः-शर्करेत्यादौ रसमिति फल्कस्यैव रसम् ॥ ३७॥
For Private and Personal Use Only