________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः] चिकित्सितस्थानम् । ३०५५
देवदारुशटीराना-कर्कटाख्यादुरालभाः। पिप्पली नागरं मुस्तं पथ्याधात्रीसितोपलाः॥ मधुतैलयुतावेतौ लेहो वातानुगे कफे। पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली॥ पथ्यातामलकीधात्री-भद्रमुस्तानि पिप्पली। देवदार्वभया मुस्तं पिप्पली विश्वभेषजम् ॥ विशाला पिप्पली मुस्तं त्रिवृता चेति लेहयेत् । चतुरो मधुना लेहान् कफकासहरान् भिषक ॥४४॥ सौवर्चलाभयाधात्री-पिप्पलीक्षारनागरम् । चूर्णितं सर्पिषा वात-कफकासहरं पिबेत् ॥ ४५ ॥ दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचत् । पुष्कराहशटीविल्व-सुरसव्योषहिङ्गभिः ॥ पेयानुपेयं तत् पेयं कासे वातकफात्मके।
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ॥ ४६॥ . गङ्गाधरः--देवदाम्वित्यादि। देवदादिदुरालभान्तचूर्ण मेको लेहः । पिप्पल्यादिसितोपलान्तः परो लेहः। इत्येतो द्वौ लेहो मधुतैलयुतौ वातानुगे कफे कासे हितो। पिप्पलीत्यादि। श्लोकाद्धेनकै कलेहः, इति चतुरो लेहान् मधुना लेहयेत् ॥४४॥
गङ्गाधरः-सौवर्चलेत्यादि। वातानुबन्धकफकासहरं पिबेदिति चतुगुणेन सपिषा॥४५॥
गङ्गाधर-दशमूलेत्यादि । दशमूलस्य रसाढ़के घृतस्य प्रस्थं पुष्करादिभिः प्रत्येकमक्षसमः कल्कः पचेत् । तत् सर्पिः पेयमनु पेया पेया॥४६॥
चक्रपाणिः- 'तुरो मधुना लेहानित्यत्र अश्लोकोक्ता लेहा ज्ञेयाः ॥ ४४ ॥ ४५ ॥
चक्रपाणिः- शमूलाढक इति दशमूलस्य क्वाथ्यस्या,कमानत्वं, तेन “क्वाथः क्वाथ्यसमो मतः” इति वचनात् पादावशिष्टक्वाथोऽप्यादकमानो भवति ॥ ४६॥
For Private and Personal Use Only