________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः] चिकित्सितस्थानम्।
३०४६ यष्टाहफ(मूलकल्कैर्वा विदारीखुरसायुतैः । हृतदोषस्ततः शीतं मधुरश्च भजेत् क्रमम् ॥ पैत्ते कासे तनुकफे त्रिवृतां मधुरैर्युताम् । दद्याद घनकफे तिक्तैर्विरेकार्थ युतां भिषक् ॥ स्निग्धशीतं तनुकफे रुक्षशीतं घने कफे। क्रमः कार्यः परं भोज्यैः स्नेहले हैश्च शस्यते ॥ ३१ ॥ शृङ्गाटकं पद्मवीजं नीलीसाराणि पिप्पली। पिप्पली मुस्तयष्टाह्व-द्राक्षामूर्वा महौषधम् ॥ लाजामृतफलं द्राक्षा त्वक्षीरी पिप्पली सिता। पिप्पली पद्मकं द्राक्षा वृहत्याश्च फलाद रसः । खर्जरं पिएली वांशी श्वदंष्ट्रा चेति पञ्च ते।
घृतक्षौद्रयुता लेहाः श्लोकाद्धैः पित्तकासिनाम् ॥ जमनम् । अथवा यष्टयाइफ(म)लकल्कैविदारीक्षुरसायुतैर्वमनम् । तेन वमनेन हृतदोषः कफानुगपित्तकासी शीतमधुरं क्रमं भजेत् । पत्ते इत्यादि। तनुकफे अघनकफे पित्तकासे मधुरैर्युतां त्रितां विरेकार्थ दद्यात्। घनकफे पित्तकासे तिक्तरसद्रव्यैर्युतां त्रितां विरेकार्थ दद्यात्। तत्राह-स्निग्धेत्यादि । तनुकफ स्निग्धशीतं कर्मव क्रमः कार्यः। घने कफे रुक्षशीतं कर्मव क्रमः कार्यः। परं भोज्यैः स्नेहले हैश्च क्रमः शस्यते। क्रमः क्रियारम्भः ॥३१॥ ___ गङ्गाधरः-शृङ्गाटकमित्यादि। शृङ्गाटकादिपिप्पल्यन्तेनार्द्ध श्लोकेनैकलेहो घृतक्षौद्रयुतः। पिप्पल्यादिमहोषधान्तेनाद्ध श्लोकेन घृतक्षौद्रयुतो द्वितोयो लेहः । लानादिसितान्तेनार्द्ध श्लोकेन घृतक्षौद्रयुतस्तृतीयो लेहः। अत्रामृतफलम् आमलकम् । लक्षीरी वंशलोचना। पिप्पली पद्मकं द्राक्षा चेतित्रयं हत्याः फलाद्रसश्च पिष्ट्वा तत् सर्च घृतक्षौद्रयुतो लेहश्चतुर्थः। खजू रादिश्वदंष्ट्रान्तेन अर्द्धश्लोकेन घृतक्षौद्रयुतः पञ्चमो लेहः। इत्यर्द्ध श्लोकैः पञ्चभिस्ते पञ्च लेहाः यव्याह्नफलकलकैरिस्यत्र फलं मदनफलम्। पित्तकासे एव कासवेगनिःसार्यमाणस्य कफस्य तनुतायां घनताया चिकित्सामाह-पैत्ते इत्यादि। तिक्तकैयुतां विवृतामिति सम्बन्धः। क्रम इति पेयादिक्रमः । परमिति पेयादिक्रमादूर्द्धम् । शस्यत इति उपचार इति शेषः ॥ ३० ॥३१॥
For Private and Personal Use Only