________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४८
चरक संहिता। [कासचिकित्सितम् दशमूलीरसे तद्वत् पञ्चकोलगुडान्विताम् । सिद्धां दद्यात् समतिलां क्षीरे वापि ससैन्धवाम् ॥ मात्स्यकोक टवाराहैरामिषैर्वा घृतान्विताम् । ससैन्धवां पाययेत यवागू वातकासिनम् ॥ २६ ॥ वास्तूको वायसीशाकं मूलकं सुनिषण्णकम् । स्नेहास्तैलादयो भक्ष्याः क्षीरेक्षुरसगौड़िकाः ॥ दध्यारनालाम्लफलं प्रसन्नापानमेव च। शस्यन्ते वातकासेषु स्वाद्वम्ललवणानि च । ३०॥ पित्तकासे तु सकफे वमनं सर्पिषैव च छ ।
तथा मदनकाश्मर्य-मधुकक्कथितै लैः॥ कोलादिभिरम्लां सैन्धवादिभिलवणामनिलजे कासे पिवेत्। प्रकरणलब्धेऽपि कासविनाशन इत्यस्मात् सामान्यकासानुत्तिनिरासार्थ मिह पुनरनिलजे इत्युक्तमिति। दशमूलीत्यादि। दशमूल्याः कर्ष प्रस्थे जले पत्त्वाद्धभृते रसे षड्गुणे क्षुद्रतण्डलान् पत्त्या पेयां पञ्चकोलचर्ण गुड़मनुरूपं दत्त्वा सिद्धां पेयामनिलजे दद्यात् । अथवापि तण्डुलान् समतिलां पेयां क्षीरे पक्त्वा ससैन्धवां सिद्धामनिलजे कासे दद्यात्। मात्स्येत्यादि। मात्स्यादिभिरामिमांसः सह पकां यवागू मण्डपेयाविलेपीनामन्यतमां घृतान्वितां ससैन्धवां वातकासिनं पाययेत् ॥२९॥
गङ्गाधरः-शाकान्याह-वास्तूक इत्यादि। मूलकं बालमूलकं वृहच्च शुष्कमिति । तैलादयः स्नेहाश्च । क्षीरादिकृता भक्ष्या अपूपादयः। दध्याद्यम्लम् । तत्राम्लफलं तिन्तिडीकादिकम् । इति वातकासचिकित्सितम् ॥३०॥
गङ्गाधरः-अथ पित्तकासचिकित्सितमाह-पित्तकास इत्यादि। सकफे प्रवलकफानुबन्धे पित्तकासे वमनं सर्पिषैव च। तथा मदनफलपीजादिकथितैः
चक्रपाणिः-पञ्चकोलगुड़ान्वितामिति प्रक्षिप्तपञ्चकोलगुड़ा समलितण्डुलसाधिताम् । आमिषै. रिति मत्स्याद्यामिषैः सतण्डुलैः सिद्धाम् ॥ २९ ॥
चक्रपाणिः-वायसी काकमाची। वमनं सपिषेति वमनद्रव्ययुक्तेन सर्पिषा वमनं कर्तव्यम् । * वमनं सर्पिषा हितम् इति चक्रपाठः ।
For Private and Personal Use Only