________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४७
१८श अध्यायः] चिकित्सितस्थानम् ।
पूर्वकल्पेन धूमोऽयं सानुपानो विधीयते। मनःशिलाले तच्च पिप्पलीनागरैः सह ॥ त्वगैङदीवृहत्यौ च तालमूली मनःशिला। कार्पासास्थ्यश्वगन्धा च धूमः कासविनाशनः ॥ २७॥ ग्राम्यानूपादकैः शालि-यवगोधूमषष्टिकान् । रसौषात्मगुप्तानां यूपर्वा भोजयेद्धि तान् ॥ २८॥ यमानीपिप्पलीविल्व-शटोचित्रकपुष्करः। रानाजाजीपृथकपर्णी-पलाशविश्वभेषजैः॥ सिद्धां स्निग्धाम्ललवणां पेयामनिलजे पिबेत् ।
कटोहत्पार्श्वकोष्ठार्ति-श्वासहिकाप्रणाशिनीम् ॥ हरितालं, शोधितम्, क्षौषमतसीवीजम्, अलक्तकं लाक्षा, रोहिषं गन्धतृणम् । एतानि पिष्टा पूर्वकल्पेन क्षोमलं म्रक्षयिखाऽनुवत्तितां वर्ति कृखा घृताक्तां शरावसम्पुटे दत्त्वा कृतोऽयं धूमः सानुपानो विधीयते। अत्र क्षीरं गुड़ोदकं वानुपानं विधीयते। मनःशिलेत्यादि। मनःशिला हरितालश्च पिप्पलीचूर्णनागरचूर्णसहितं मिश्रयिखा तद्वत् क्षौमचेलं म्रक्षयित्वाऽनुवर्त्तितां वर्ति कृता घृताक्तां शरावसम्पुटे दत्त्वा कृतो धूमः सानुपानो विधीयते क्षीरं गुड़ोदकमत्रानुपानमिति । खगित्यादि। ऐड्डदी खक। एतदाद्यश्वगन्धान्तं पिष्ट्वा क्षोमचेलं म्रक्षयित्वानुवर्तितां वत्तिं कृता घृताक्तां शरावसम्पुटे दत्त्वा पूर्वोक्तनाड्या धमः सानुपानः पेयो विधीयते ॥२७॥
गङ्गाधरः-ग्राम्येत्यादि । ग्राम्यादिमांसरसैः शाल्यादोनामोदनादीन् कासहितान् भोजयेत् । माषात्मगुप्तफलविदलानां यूपैर्वा तान् भोजयेत् ॥२८॥ . ___ गङ्गाधरः-यमानीत्यादि। पृथपर्णी पृश्निपर्णी । यमान्यादीनि मिलितानि कर्षमानानि प्रस्थे जले पक्त्वार्द्धतेन तेन काथेन पेयां घृतादिना स्निग्धां "सन्निपातोद्भवो हेष क्षयकासः सुदारुणः। सन्निपातहितं तस्मात् कार्य्यमत्र भिषजितम् ।" प्रपौण्डरीकमित्यादि। शाङ्गेष्टा गुमा। कृत्वा वर्तिमिति माताशितीयोक्तविधानेन, रौहिषं गन्धतृणं, पूर्वकल्पेन पूर्वोक्तविधिना, नागौरित्यनेन एको योगः॥ २७ ॥
चक्रपाणिः-आत्मगुप्ता इति शूकशिम्बिः ॥ २८ ॥
For Private and Personal Use Only