________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४६
चरक-संहिता। (कासचिकित्सितम् स ह्यस्य तैदण्याद् विच्छेद्य श्लेष्माणमुरसि स्थितम् । निष्कृष्य शमयेत् कासं वातश्लेष्मसमुद्भवम् ॥ . मनःशिलालमधुक-मांसोमुस्तैनन्दः पिबेत् । धूमं तस्यानु च पयः कदुष्णं सगुड़ पिबेत् ॥ एष कासान् पृथग्दोष-सन्निपातसमुद्भवान् । धूमो हन्यादसंसिद्धानन्ययोगशतैरपि ॥ प्रपौण्डरीकं मधुकं सशाङ्गेष्टां मनःशिलाम् । मरिच पिप्पली द्राक्षामेला सुरसमञ्जरीम् ॥ कृत्वा वत्तिं पिबेद धूमं दौमचेलानुवर्त्तिताम् ।
घृताक्तामनु च क्षीरं गुड़ोदकमथापि वा ॥ - मनःशिलैलामरिच-क्षाराञ्जनकुटन्नटः। - वंशलेखनसेव्याल-क्षोमलक्तकरौहिषः॥ धूमकवलं मुञ्चेत् । आशिषमाह-स हीत्यादि। हि यस्मात् । स धूमस्तक्ष्ण्यात् अस्योरसि स्थितं श्लेष्माणं विच्छेद्य निष्कृष्य वातश्लेष्मसमुद्भवं कासं शमयेत् । धूमान्तरमाह-मनःशिलेत्यादि। आलं हरितालम्। ऐडदं फलम् । एभिधूममुक्तप्रकारेण पिबेत् अनु सगुई कदुष्णं पयः पिबेदोजोरक्षार्थम् । एष इत्यादिनाशीः। प्रपौण्डरीकमित्यादि । शार्जेष्टा घण्टारवा । सुरसमञ्जरी तुलसी. मञ्जरी। एतानि पिष्ट्वा क्षोमचेलं म्रक्षयिखाऽनुवर्त्तितां वत्तिं कृता घृताक्तां धूमं पिबेत्, तदनु क्षीरं गुड़ोदकं वा पिबदोजोरक्षार्थ मिति । मनःशिलेत्यादि । एला स्थूला, कुटन्नटं कैवत्तेमुस्तकं, वंशलेखनं वंशनीली, सेव्यमुशीरम्। आलं वमनार्थ तन्तान्तरे पृथगेवोक्तः। यद्यपि पञ्च धूमाः स्नेहनप्रायोगिकवरेचनिककासन. वामनीयाश्चेति सुश्रुते प्रोक्ताः, तथापीह कासनवामनीययोः विरेचनकारकतया कासहरस्य न वमनादिभेद उक्त इति विशेषो ज्ञेयः। छिमिति उपरि नलिकामानच्छिद्रयुक्तम् । जिलामिति वक्राम् । मुखेनैद इति वचनेन प्रागुक्तनासापानं निषेधयति। मनःशिलेप्यादौ भलं हरितालम् । इकुदः पुत्रजीवकः । अस्य धूमस्य पश्चात् क्षीरपानं तीक्ष्णेन धूमेन क्रियमागत्वात् भोजाक्षयादिभयपरिहारार्थम्। सन्निपातजकासो यद्यप्यत्र नोक्तः तथापि प्रकृतिसमसन्निपातस्तु कासो भवत्येव इति वचनात् उन्नीयते। किंवा सामिपातिकः क्षयजकासः वक्ष्यते हि
For Private and Personal Use Only