________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८ अध्यायः चिकित्सितस्थानम् ।
३०४५ सैन्धवं पिप्पलों भार्गी शृङ्गावरं दुरालभाम् । दाडिमाम्लेन कोष्णेन भार्गोनागरमम्बुना ॥ पिबेत् खदिरसारं वा मदिरादधिमस्तुभिः। अथवा पिप्पलोकल्कं घृतभृष्टं ससैन्धवम् ॥ २६ ॥ शिरसः पीड़ने स्रावे नासाया हृदि ताम्यति । कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत् ॥ दशाङ्लोन्मितां नाड़ीमथवाष्टाङ्गलोन्मिताम् । शरावसम्पुटे छिद्रे कृत्वा जिह्मां विचक्षणः॥ मुखेन वैरेचनिकं कासवान् धूममापिबत् ।
तमुरः केवलं प्राप्तं मुखेनैवोद्वमेत् पुनः ।। इति। तत्रापि कुड़ववचनाद् घृतादीनां समानमाननिदेशेन तन्त्रान्तरे मधुनश्च पलाष्टकम् इत्युक्तः द्रवखाद घृततैलमधूनां पलाष्टकमिह कुड़वमिति । अगस्त्यहरीतकी ॥२५॥
गङ्गाधरः-सैन्धवमित्यादि । दुरालभान्तानि चर्णीकृत्य दाहिमाम्लेन पिवेत् । भार्गीनागरं चूर्णीकृत्य कोष्णेनाम्बुना पिबेत्। खदिरसारं वा चूर्णीकृत्य मदिरयाऽथवा दधिमस्तुभिः पिबंदिति त्रयो योगाः। अथवेत्यादि। पिप्पलीकल्कं ससैन्धवं घृते भृष्टं पिबेत् इति पूर्वेणान्वयः ॥२६॥
गङ्गाधरः-कासहरधूमपानविधानमाह-शिरस इत्यादि । शिरसः पीड़ना. दिषु कासपतिश्यायवतां वैद्यः कासहरद्रव्य,मं प्रयोजयेदिति। यथा प्रयोजयेत् तदाह-दशाइलेत्यादि । नाड़ी धूमनेत्रं दशाडलाष्टाङ्गुलान्यतरां नलिकां जिह्मां कुटिलां त्रिपची पूर्ववत् कुवा शरावसम्पुटे कासहरौषधं दत्त्वा छिद्रं कृता सत्र निधाय मुखेन वैरेचनिकं धूमं पिबेत्, तं धूममुरः कृत्स्नं प्राप्तं मुखेनैव सम्बद्धलेह्य भागं लिह्यात्। ततस्तदभयाद्वयं खादेदित्यर्थः । अगस्त्यविहितमित्यनेनास्य महाजनसंप्रदाययोग्यता सिद्धा भवति इत्यर्थः ॥ २५॥
चक्रपाणिः-खदिरसारमिति खदिरकाष्ठसारम् । ससैन्धवमिति ईषत्सैन्धवेन अव्यक्तलवणमिति यावत् । अत्रापि मदिरादिभिः पिबेदित्यनुवर्तते ॥ २६ ॥
चक्रपाणिः-शिरस इत्यादिना धूमयोग्यावस्थोपदर्शनपूर्वकं धममाह। गौरवादिना शिरसि पीड़ित दशाङ्गुलोन्मिता सूत्रस्थानोक्तधूमपानविशिष्टनलिकेह विधीयते। अयञ्च धूमः
For Private and Personal Use Only