________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४४
चरक-संहिता। | कांसंचिकित्सितम् यवैः खिन्नैः कषायं तं पूतं तच्चाभयाशतम् । पचेद गुड़तुलां दत्त्वा कुड़वश्च पृथग् घृतात् ॥ तैलात् सपिप्पलीचूर्णात् सिद्धशीते च माक्षिकात्। लिह्याद द्वे चाभये नित्यमतः खादेद् रसायनात् ॥ तद् बलोपलितं हन्याद् वर्णायुर्बलवर्द्धनम् । पञ्च कासान् क्षयं श्वासं हिक्काच विषमज्वरान् ॥ हन्यात् तथाोंग्रहणी-हृद्रोगारुचिपीनसान् । अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम् ॥ २५ ॥
अगस्त्यहरीतकी । अशीतिशरावे पचेत् । यवैः स्विन्नैः पादावशेषे रसे सति यवाः स्विन्ना भवन्ति, ततस्तं कषायं पूतं, तच्चाभयाशतं विनमस्थिहीनं कृता, तत्र कषाये गुड़तुला दत्त्वा पृथक् प्रत्येकं घृतात् कुड़वं तैलाच्च कुड़वमादौ नोखा तत्र हरीतकीशतं भृष्टा पिप्पलोचूर्गाच्च कुड़वं दत्त्वा पचेन्। कुड़वन्तु द्वैगुण्याद घृततैलयोः प्रत्येकमटौ पलानि, पिप्पलीचूर्णस्य चखारि। सिद्धशीते गुड़पाकसिद्धिलक्षणोदयेऽवताय्ये शीतीकृने माक्षिकात् कुड़वं दत्त्वाष्टपलं दत्त्वातो रसायनाल्लेहं यथाशक्ति लिह्यात्, द्वे चाभये नित्यं खादेदिति । अत्र यवाः खिन्ना अष्टांशशेष काथे भवन्तीति नाशयम्, चतुर्थांशशेष एव तथाभावस्य सुश्रुतवचनात्। तत्र हुक्तं द्रोणे जलस्याढकसंयुते तु काथीकृते पूतचतुर्थभागे।
चक्रपाणिः-दशमूलीमित्यादौ हरीतकीशतमिति हरीतकीफलशतम्। यवैः खिन्नैरिति यदा यवाः स्विन्नाः भवन्ति तदा त कषायं पूतं गृहो वा हरीतकीशनञ्च गृहीत्वा गुड़तुलाञ्च दत्त्वा पुनः पाकः कत्र्तव्यः। यवानाञ्च स्विन्नानां चतुर्भागावशेष एवं कषायो भवतीति कृत्वा चतुर्भागावशिष्टमेवात कपायं कुर्वन्ति। घृततैलकुड़वे चात्राष्टपलमानेन, कुड़वेऽपि द्वैगुण्यस्य प्रतिपादितत्वात् । तनान्तरे चाव योगे मधुनश्च पलाष्टकमित्युक्तम् । तुल्य...नत्वेऽपि चात घृतमधुनोः द्रवान्तरयोगविद्यमानत्वात् न विरुद्रत्वम् ; द्रवान्सरयोगे सति मधुधृतयोः तुल्यमानता न विरुद्धा भवति । अत्र च हरीतकीफलं स्विन्नं घृततैले प्रथमं भजेयन्जि ततः क्वाथादिप्रक्षेपः, अवतारसमये च पिप्पलीचूर्णप्रक्षेपः, शीतीभूते च मधु देयम इदं वृद्धवैद्यानां कर्माहु। लिह्यादिति तं प्रकृतं लेहं लिह्यात्। द्वे अभये च खादेत्। नित्यं निम्न्तरमित्यर्थः। किंवा द्व अभये लिह्यात् तथा हे अभये खादेत् । इत्यनेत अभयाय
For Private and Personal Use Only