________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः] चिकित्सितस्थानम् ।
३०४३ चित्रकं पिप्पलीमूलं व्योषं मुस्तं दुरालभाम् । शटी पुष्करमूलञ्च श्रेयसी सुरसां वचाम् ॥ भार्गी छिन्नरुहां रानां कर्कटाह्वाञ्च कार्षिकान् । कल्कान् निदिग्ध्यर्द्धतुलां निक्वाथ्य पलविंशतिम् ॥ मत्स्यण्डिकास्तत्र दत्त्वा सर्पिषः कुड़वं पचेत् । सिद्धं शीतं पृथक क्षौद्र-पिप्पलीकुड़वान्वितम् ॥ चतुःपलं तुगाक्षीर्याश्चूर्णितं तत्र दापयेत् । लेहयेत् कासहृद्रोग-श्वासगुल्मनिवारणम् ॥ २४ ॥
चित्रकादिलेहः । दशमूली स्वयंगुप्तां शङ्खपुष्पी शटी बलाम् । हस्तिपिप्पल्यपामार्ग-पिप्पलीमूलचित्रकान् । भार्गी पुष्करमूलञ्च द्विपलांशं यवादकम् ।
हरीतकीशतं भद्र जलपञ्चाढ़के पचेत् ॥ कृला पुराणगुड़तैलाभ्यां द्विगुणाभ्यां गोलयिखा वातजे कासे लेहयेत् । विहङ्गानित्यादि । विडङ्गादिमनःशिलान्तं समं चूर्णयिखा क्षौद्रघृतप्लुतान् लिह्यात् ।।२३
गङ्गाधरः-चित्रकमित्यादि। चित्रकादोन कर्कटान्तान् कार्षिकान् चूर्णितान् निदिग्धिकाया अर्द्ध तुलां द्वात्रिंशच्छरावजले निकाथ्य तत्र पादशेषेऽष्टशरावे काथे दत्त्वा मत्स्यण्डिकाः पलविंशतिश्च दत्त्वा सर्पिषः कुड़वञ्च दत्त्वा पचेत्। घनीभूते तत्र तुगाक्षीर्याश्चूर्णितं चतुःपलं दापयेत् । सिद्धं तं शीतं कला क्षौद्रस्य कुड़वान्वितं पिप्पलीचूर्णकुड़वान्वितं कृखा स्थापयेत् । अग्निवलानुरूपं तं लेहये। चित्रकादिलेहः ॥ २४ ॥
गङ्गाधरः-दशमूलीत्यादि । स्वयंगुप्तामात्मगुप्ताम् । दशमूल्यादीनां पुष्करमूलान्तानां प्रत्येकं द्विपलांशं यवस्याङकमष्टौ शरावाणि हरीतकीशतं गुड़कानाम् भद्रमिति सम्पूर्णवीय्यं वस्त्रे पोट्टली बड़ा प्रक्षिप्य जलपश्चाढ़के
चक्रपाणिः-चित्रकमित्यादौ श्रेयसीमिति हस्तिपिप्पली। अर्द्धतुलाकाथ इत्यत्र तुलाईशब्दोल्लेखेन क्रियमाणत्वाद् द्रोणार्द्धजलेन क्वाथः कर्तव्यः ॥ २४ ॥
For Private and Personal Use Only