________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०४२
चरक-संहिता। [कासचिकित्सितम् पञ्च कासान् शिरःकम्पं शूलं वङ्क्षणयोनिजम् । सर्वाङ्गकाङ्गरोगांश्च स प्लीहोर्द्धानिलान् जयेत् ॥ २२ ॥
रास्नाघृतम्। विडङ्ग नागरं राना पिप्पलो हिङ्ग सैन्धवम् । भार्गी क्षारश्च तच्चणं पिबेद वा घृतमात्रया॥ सकफेऽनिलजे कासे श्वासे हिकाहताग्निषु । द्वौ क्षारौ पञ्च कोलानि एञ्चैव लवणानि च ॥ शटीनागरकोदीच्य-कल्कं वा वस्त्रगालितम् । पाययेत् तद् घृतोन्मिश्रं वातकासनिवर्हणम् ॥ दुरालभां शृङ्गवरं शटी द्राक्षां सितोपलाम् । लिह्यात् कर्कटशृङ्गीञ्च कासे तैलेन वातजे॥ दुःस्पर्श पिप्पली मुस्तं भार्गी कर्कटकं शटीम् । पुराणगुड़तैलाभ्यां चूर्णितं वापि लेहयेत् ॥ विडङ्गान् सैन्धवं कुष्ठं व्योषं हिङ्गु मनःशिलाम् ।
हिकाश्वासे च कासे च लिह्यात् क्षौद्रघृतप्लुतान् ॥ २३ ॥ दशभिः प्रत्येकं पलोन्मितः कल्कैः सिद्धं तदघृतं वातरोगेषु समीक्ष्य यथावस्थं नस्यादिभिः प्रयोजयेत्। रास्नादशमूलघृतम् ॥ २२ ॥
गङ्गाधरः---विडङ्गमित्यादि। विड़गादीनि चूर्णयिखा सकफेऽनिलजे कसे घृतमात्रया चतुर्गुणया पिवेत् । द्वौ क्षारावित्यादि। द्विक्षारादीन् समान् जलेन पिष्टा कल्कीकृत्य वस्त्रगालितं कृता घृतोम्मिश्रं पाययेत् । दुरालभामित्यादि। दुरालभादिकर्कटशृङ्गान्तं चूर्णयित्वा सर्वसमां शर्करां मिश्रयित्वा तैलेन वातजे लिह्यात् । दुःस्पर्श मित्यादि। दुःस्पर्शी दुरालभा। शट्यन्तं चूर्ण
चक्रपाणिः-द्रोणेऽपामित्यादौ वक्ष्यमाणानि अजमांसान्तानि क्वाथ्यानि द्रोणे एव साध्यानि । माणिकाष्टौ पलानि। जीवनीयानीति जीवन्त्यादीनि दश षड़ विरेचनशताश्रितीयोक्तानि ॥२२॥
चक्रपाणिः-धृतमात्रयेति चूर्णमालोड़ितं घृतमात्रया। वस्त्रगालितमिति वस्त्रपूतम् । कटकमिति कर्कटशृङ्गी ॥ २३ ॥
For Private and Personal Use Only