________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०५०
चरक-संहिता। [ कासचिकित्सितम् शर्करा चन्दनं द्राक्षा मधुधात्रीफलोत्सलः । पैत्ते समुस्तमरिचः सकफे सघृतोऽनिले ॥ मृद्वीकार्डशतं त्रिंशत्-पिप्पलीः शर्करापलम् । लेहयेन्मधुना गोर्वा क्षीरे पत्तवा शकूद्रसान् ॥ त्वगेलाव्योषमृद्वीका-पिप्पलीमूलपौष्करः। लाजामुस्तशटीराना-धात्रीफल विभीतकैः॥ शर्करानौद्रसपिभिलेहः कासविनाशनः।। श्वास हिक्कां क्षयञ्चैव हृद्रोगश्च विनाशयेत् ॥ पिप्पल्यामलकं लाजां लाक्षां द्रानां सितोपलाम् । क्षीरे पक्त्वा घनं शीतं लिह्यात् क्षौद्राष्टभागिकम् ॥ विदारीक्षुमणालानां रसान् क्षोरं सितोपलाम । पिबेद वा मधुसंयुक्तं पित्तकासहरं परम् ॥ ३२॥ .
पित्तकासिनां शस्यन्ते। शकरेत्यादि। शकरादीन्युत्पलान्तानि समानि । तत्र मधु लेहयोग्यमित्येष लेहः शुद्ध पैत्ते कासे शस्यते। अयं लेहः समुस्तमरिचः सकफे पैत्ते कासे सानिले पैत्ते सघृत उत्पलान्तो लेहः शस्यते। मृद्वीकेत्यादि। आकृतिमानात् मृद्वीकाया अर्द्धशतं पञ्चाशद्गुड़कं पिप्पलीरप्याकृतिमानात् त्रिंशदगुड़कम्। शर्करापलं मधुना लेहयेत्। गोः शकुद्र सान् चतुर्गुणे गोः क्षीरे पक्त्वा वा लेहये। खगेलेत्यादि। खगादि विभीतकान्तानां सर्वेषां चूर्ण समानांशेन सर्वमेकीकृत्य शर्कराक्षौद्रसर्पि भिलेहः कासविनाशनादिः । पिप्पल्यामलकमित्यादि। पिप्पल्यादिसितोपलान्तानि समानि क्षीरे पत्तवा घनीभूतं शीतं कृता सर्चद्रव्यादष्टमभागक्षौद्रयुतं लिह्यात्। प्रकरणात् पैत्ते। विदारीत्यादि। मृणालमुशीरं, विदार्या रस इक्षुरस उशीरकाथः इत्येतान्
चक्रपाणिः-नीलीसारमिति नीलिनीफलसारम्। अमृतफलम् आमलकम्। शर्करादिः केवलं पैत्ते, सकफे पैत्ते समुस्तमरिवः, रूघृतस्तु शर्करादिः अनिलानुबन्धे पैत्ते जयः। मृद्वीकार्दशतं त्रिंशपिप्पलीश्च व्यक्ते परिग्रहात् । गोक्षीरस्येति क्षीरमाताशनस्य । पिप्पल्यामलकमित्यादौ घनमिति घनतामापन्नम् ॥ ३२॥
For Private and Personal Use Only