SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८श अध्यायः] चिकित्सितस्थानम् । त्रीन् पूर्वान् साधयेत् साध्यान् पथ्यैर्याप्यांस्तु यापयेत् । चिकित्सामत ऊर्द्ध हि शृणु कासनिवर्हणीम् ॥ १७॥ रुक्षस्यानिलज कासमादौ स्नेहरुपाचरेत् । सर्पिभिर्वस्तिभिः पेया-क्षीरयूषरसादिभिः॥ वातनसिद्धैः स्नेहादरवूमैलेहैश्च युक्तितः। अभ्यङ्गैः परिषेकैश्च स्निग्धैः स्वेदश्च बुद्धिमान् ॥ क्षयजौ कासौ नवौ नूतनौ चेत् तदा सर्वेषां पादगुणान्वितौ गुणवच्चतुष्पादयुक्ती कदाचित् सिध्येताम्। इति पञ्च कासाः। अत्र स्थविराणां वृद्धतमानां यः कश्चिज्जरानिमित्तः कासः सर्च एव स याप्यः प्रकीर्तितः। जरया धातुक्षयं विना यदि वातादिस्वस्वकारणजो भवति तदा वातजादयस्वयः साध्याः स्युरित्यतो जराकास इत्युक्तम् ॥१५॥ १६॥ गङ्गाधरः-एषां चिकित्स्यानाह—त्रीनित्यादि। त्रीन् पूर्वान् वातजपित्तजकफजान् साध्यान् साधयेत्, याप्यान् बलवतां क्षतोत्थजराकासान पथ्यैर्यापयेत् । इति पञ्चकासनिदानम्। एषां चिकित्सामाह -चिकित्सामित्यादि ॥१७॥ गङ्गाधरः-रुक्षस्येत्यादि। रुक्षस्य स्नेहासेविनः स्नेहः सर्पिरादिभिरादावनिलजं कासमुपाचरेत्। कीदृशैरित्यत आह-स्नेहादास्तैर्वातघ्नदशकसिद्धैरुपाचरेन शुद्धैः। धूमले हैश्च युक्तित उपाचरेत् । अपरैरभ्यङ्गै. तिनसिद्धैर्वातघ्नसिद्धः परिषेकैश्वोपाचरेत् । स्निग्धैः स्वेदैश्व बुद्धिमानुपाचरेत् क्षतजो याप्य इति उक्तः स भिन्नविषयः। क्षयजकासभेदं जराकासं याप्यतया दर्शयन्नाह स्थविराणामित्यादि। स्थविराणामित्युक्त्यापि जराकास इति वचनेन देहक्षयकारितया कृतः स याप्यः, यस्तु दोषकृतः स साध्यः एव भवतीति ज्ञेयः। अन्ये तु जराकासं दोषेष्वेव भन्तर्भावयन्ति ॥ १६ ॥ चक्रपाणिः-त्रीन् पूर्वानिति दोषजान्। साध्यानिति साध्यत्वेनोक्तान् । याप्यान् इति बहुवचनं व्यक्त्यपेक्षया उन्नेयम् ॥ १७ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy