SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०३८ चरक-संहिता। कासचिकित्सितम् दुर्गन्धं हरितं रक्तं ष्ठीवेत् पूयोपमं कफम् । कासमानश्च हृदयं स्थानभ्रष्ट स मन्यते ॥ अकस्मादुष्णशीतातॊ बह्वाशी दुर्बलः कृशः। प्रसन्नस्निग्धवदनः श्रीमदर्शनलोचनः॥ पाणिपादतलौ श्लक्ष्णौ घृणावानभ्यसूयकः । ज्वरो मिश्राकृतिस्तस्य पार्श्वक पीनसोऽरुचिः॥ भिन्नसंघातवर्चस्त्वं खरभेदोऽनिमित्ततः। इत्येष क्षयजः कासः क्षीणानां देहनाशनः ॥ १५ ॥ साध्यो बलवतां वा स्याद् याप्यस्त्वेवं क्षतोत्थितः। नवौ कदाचित् सिध्यतामेतौ पादगुणान्वितौ। स्थविराणां जराकासः सव्वों याप्यः प्रकीर्तितः ॥ १६ ॥ कासाच्च देहक्षयो भवतीति प्राह-देहक्षयप्रदमिति । दंहक्षयाच क्षयो राजयक्ष्मा भवति । उक्तं यत्। कासात् संजायते क्षय इति । तदुपेक्षया सर्वेभ्यः कासेभ्य एव क्षयः स्यादिति ॥१४॥ गङ्गाधरः-स क्षयकासी कासमानो दुर्गन्धादिकर्फ ष्ठीवेत् । हृदयं स्थानभ्रष्टमिव मन्यते। अकस्मादुष्णात्तोऽथ कचिच्छीतातौ भवति । किन्तु बह्वाशी सन् दुर्बलश्च कृशश्च भवति, तद्बह्वाहारफलं न लभते । दुर्बलः कृशोऽपि प्रसन्नस्निग्धवदनः स्यान तु दोबल्यकार्य कलं भवति । लोचने द्वे च श्रीमती दृश्यते । पाणिपादतलौ श्लक्ष्णो मसृणो भवतः । घृणावान् सर्वत्र घृणयाभ्यसूयां करोति। तस्य मिश्राकृतिर्द्वन्द्वसन्निपाताकृति+रो भवति। अनिमित्ततः स्वरभेदः स्वरभङ्गकारणाभावेऽपि स्वरभङ्गः स्यात् । इत्येष इत्येतल्लक्षणः क्षयजः कासः । एष क्षीणानां देहनाशनो मारकः, बलवतां साध्यो वा भवति। एवं बलवतां क्षतोत्थितः कासो याप्यः। एतौ क्षतज चक्रपाणि:-अव प्रसन्नदृष्टित्वं भिन्नवर्चस्त्वम् अनिमित्ततो भवति, तथा स्वरभेदोऽपि अनिमित्ततो भवति । देहनाशन इत्यसाध्य इत्यर्थः ॥ १५ ॥ चक्रपाणि:-पादगुणान्वत इति पादचतुष्टयगुणवान् । अस कदाचित् सिध्यतीत्यभिधानेन याप्यत्वं साध्यत्वं वा नैकविषयकम्। यतो न वायोरेव चतुष्पादसम्पत्त्या साध्यत्वमुक्तम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy