________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८श अध्यायः चिकित्सितस्थानम् ।
अतिव्यवायभाराध्व-युद्धाश्वगजनिग्रहः। रुक्षस्योरः क्षतं वायुर्घ होत्वा कासमावहेत् ॥ १२॥ स पूर्व कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कण्ठेन रुजतात्यर्थं विरुग्णेनेव चोरसा॥ सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना। दुःखस्पर्शन शूलेन भेदपीड़ाभितापिना ॥ पर्बभेदज्वरश्वास-तृष्णावैवयंपीड़ितः। पारवत इवाकूजन् कासवेगात् क्षतोद्भवात् ॥ १३ ॥ विषमासात्म्यभोज्याति-व्यवायाद वेगनिग्रहात्। घृणिनां शोचतां नणां व्यापन्नेऽनौ त्रयो मलाः ।
कुपिताः क्षयजं कासं कुय्युहक्षयप्रदम् ॥ १४ ॥ युतो बहुलादिकं कफमरुग् यथा स्यात् तथा निष्ठीवेत् । सम्पूर्णमिव कर्फन वक्षो मन्यते। इति कफकासलक्षणम् ॥११॥
गङ्गाधरः-अथ क्षतकासमाह-अतिव्यवायेत्यादि। रुक्षस्य नरस्य युद्धान्तैरश्वगजयोनि ग्रहेग च क्षत पुरो वक्षो वायुर्य हीखा कासमावहेत् ।। १२॥
गङ्गाधरः-तस्य लक्षणमाह-स इत्यादि। स क्षतकासी पूर्वं शुष्कं कासते पश्चात् ततः सशोणितं कर्फ ष्ठीवेत्। अत्यर्थ रुजता कण्ठेन विशिष्ट उरसा विरुग्णेनेव तीक्ष्णाभिः सूचीभिरिव तुद्यमानेन शूलिना चोरसा तथा भेदपीडाभितापिना दुःखस्पर्शन शूलेन च विशिष्टेनोरसा युक्तः पर्बभेदादिभिः पीड़ितः क्षतोद्भवात् कासवेगात् पारावत इवाकूजन् वर्त्तते ॥१३॥ ___ गङ्गाधरः-इति क्षतकासलिङ्गमुक्त्वा क्षयकासमाह-विषमेत्यादि। विषमभोज्यासात्म्यभोज्यातिव्यवायात् घृणिनां घृणावतां शोचताश्च नणामग्नौ व्यापन्ने सति त्रयो मलाः कुपिताः क्षयजं रसादिधातुक्षयात् कासं कुर्युः।
चक्रपाणि:-अतिव्यवायेत्यादिना क्षतजमाह। उरःक्षतं गृहीत्वेति क्षतं प्राप्त्यर्थः । भयञ्च कासः साहसयक्ष्मरूपेऽपि युक्त एव ज्ञेयः ॥ १२ ॥ १३ ॥
चक्रपाणिः-विषमे यादिना क्षयजमाह । अव च विषमासाम्यभोज्येन तथा व्यवायेन तथा वेगनिग्रहेण विषमासात्म्यजक्षयजवेगसन्धारणजानां यक्ष्मणां लक्षणभूतकासहेतुवयं पृथगुक्तं भवति॥१४
For Private and Personal Use Only